SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ २२ प्रत्यक्तत्त्वचिन्तामणी इदानी संसारबन्धनस्य तत्त्वज्ञाननिवर्त्यत्वसिद्धये ब्रह्माज्ञानान्मायादिशब्दवाच्यादेव संसारोत्पत्तिरिति दर्शयति-ब्रह्म ति । अग्रे सृष्टः पूर्व ब्रह्म वासीदिति सम्बन्धः। कार्यब्रह्मादिशङ्काव्यावृत्त्यर्थमाहपरममिति । तस्य द्वितीयसंसर्गशङ्कावारणायाह-केवलमिति । अध्यस्तत्वशङ्काव्यावृत्त्यर्थमाह-तत्त्वमिति। अनारोपितस्वरूपमित्यर्थः । मुक्तैरधिगम्यत्वदर्शनायाह-अमृतमिति। एवं शुद्ध वस्तुतत्त्वं निरूप्य तस्याध्यस्तविश्वाधिष्ठानत्वयोग्यतानिरूपणपुर:सरम् 'अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते' इति न्यायेन ततो विश्वोत्पत्तिप्रकारं दर्शयति-मायेति । अघटितघटनापटीयसी अनाद्यनिर्वाच्याऽज्ञानाविद्यादिशब्दवाच्या माया शक्तिवत्परतन्त्रतया शक्तिस्तयाश्रितं शबलितं वस्तुतोऽकलन सकलकल्पनाशून्यमपि सृष्टिकाले तस्मादभिन्ननिमित्तोपादानान्मायाशवलाद्ब्रह्मणः सकाशाद्भोक्तारोऽन्तःकरणोपाधिका जीवा भोग्य शब्दादिविषयजातम् । आदिपदेन भोगालयभोगभूम्यादयो गृह्यन्ते। भूतमात्राः शब्दादितन्मात्रपदवाच्यानि प्रपञ्चीकृतव्योमादीनि पञ्चसूक्ष्मभूतानि, आदिपदात्तान्येव स्थूलानि पञ्चीकृतानि, तेषां सर्वत्र तुल्यत्वेऽपि स्वस्वाविद्याकामकर्मादिभिर्विषमा विचित्रा रचना यस्य विश्वस्य तदविरलं जीवैस्तत्कर्मादिभिश्च निविलं समस्तं निःशेषं जातमुत्पन्नमित्यर्थः । एतदुक्तं भवति वस्तुतो ब्रह्मकमेवाद्वितीयमसंगोदासीनमकादिरूपं दुर्घटघटनापटीयसी मायामादाय "मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम्" ( श्वे० ४।१०) इत्यादिश्रुतिसिद्धाध्यस्तविश्वाधिष्ठानत्वेन कारणतां भजते। यदि कारणसमसत्ताकं कार्यमभ्युपगतं स्यात्तदाऽसंगादासीनं केवलं नित्यकूटस्थं ब्रह्मकथमभिन्ननिमित्तोपादानरूपं कारणं स्यात् ? मिथ्याभूतन्तु कार्य्यम विकृतरज्ज्वादौ सर्पादिवदज्ञानादविकृतेऽपि वस्तुन्यध्यस्यमानं वस्तुतो नाधिष्ठानं स्पृशति, अद्वितीयवस्तुन एव श्रूयमाणजगत्कारणत्वनिर्वाहाय कल्प्यमानामाया धर्मिग्राहकमानादुपजीव्यानुसाराञ्च मिथ्या Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy