SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम् । २१ न्तराणि च करणानि येषान्ते : अनेन शमादिसम्पदुपलक्षिता। राग ऐहिकामुष्मिकभोगस्तदुपायेच्छा स विगतो येभ्यस्ते । अनेनेहामुत्रार्थफलभोगविराग उक्त: । विगतो मानः स्वस्मिन्पूज्यत्वादिबुद्धिर्येभ्यस्ते । अदम्भित्वादेरप्युपलक्षणमेतत् । वेदान्तोक्तौ तत्त्वमस्यादिवाक्यपु भगवति श्रीकृष्णे गुरावात्मतत्त्वोपदेष्टरि च श्रद्दधानाः श्रद्धा आस्तिक्य तद्वन्त इत्यर्थः । अहिंस्रा: सर्वभूतानुकम्पया मनोवाकायैः परद्रोहशुन्याः। अनेनोपरतिशब्दितः संन्यास उक्तः। स्वच्छोऽत्यन्त निर्भल: यथाशास्त्रमाचाशे येषान्ते । अनेन स्वधर्मनिष्ठत्वं दर्शितम् । नित्यानित्यवस्तुविवेचनचतुरा मतिर्येषान्ते । अनेन नित्यानित्यवस्तुविवेकसम्पदुक्ता। नित्यो यो मोक्षपदार्थस्तन्मात्राभिलाषिणों नित्यमोक्षप्लवः । अनेन मुमुक्षुत्वमुक्तम् । उक्तलक्षण सम्पन्ना य मुमुक्षवः “प्रदीप्तशिरा इव जलराशि विविक्षुः” इति पञ्चपादि. कोक्तलक्षणोत्कटसच्चिदानन्दाद्वयत्वात्मलाभरूपमोक्षेच्छाशालिनः पुरुषधौरेयास्ते इमं परमपुरुषार्थोपाय प्रत्यत्त त्वचिन्तामणिनामक ग्रन्थं वीक्ष्य पौवापर्येणावलोक्य तद्विचारजनितप्रत्यगात्मबोधात्तत्त्वसाक्षा. काररूपात्परमं निरतिशयममृतं कैवल्याख्यौं पदं प्राप्नुवन्ति तद्रपा एव भवन्तीत्यर्थः । अनेन अथातो ब्रह्मजिज्ञासा" (ब्र० सू० १११।१ ) इति शास्त्राद्यसूत्रस्थायशब्दानन्तर्येण योग्य. वात्साधनचतुष्टयसम्पत्तिरवावधित्वेनापेक्ष्यते । न वेदाध्ययनमात्रं धर्मजिज्ञासायामिवेति सूचनेन धर्मब्रह्मजिज्ञालयोभित्राधिकारित्वमपि दर्शितं बोध्यम् ।। १२ । ब्रह्मैवाने परमममतं केवलं तत्त्वमासी न्मायाशक्त्याश्रितमकलनं सृष्टिकाले समस्तम् । तस्माज्जातं विषमरचनं भूतमात्रादिहेतु स्वस्वाविद्यादिभिरविरलंभोक्तभोग्यादिविश्वम्॥१३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy