SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ २० प्रत्यक्तत्त्वचिन्तामा त्फलमाह-चित्तशुद्धर कहेतुरिति । भक्तिनिष्ठामाह-भक्तिरिति । तज्जा तस्याश्चित्तशुद्धः सकाशाज्जायत इति तज्जा। भक्तिं प्रति तस्या हेतुत्वमित्यर्थः। "तावत्कर्माणि कुर्वीत न निर्विघेत यावता। मत्कथाश्रवणादा वा श्रद्धा यावन्न जायते ॥ (भा० ११ । २०६८) इत्यत्र वैराग्यादिप्रवृत्तिहेतुत्वमिव भक्तिं प्रत्यपि चित्तशुद्धेर्हेतुत्वमुक्तम् । भक्तेः स्वरूपमाह-हरिपदरतिरिति । भगवत्पदारविन्दे तत्परत्वं भक्तेः स्वरूपमित्यर्थः । तत्फलमाह-प्रेमेति । प्रेमदाय प्रेमप्रकर्ष एव भक्तर्मुख्यं फलं तस्या अवान्तरफलमाह-विराग इति । यथा यथा हरिपदप्रेमप्रकर्षस्तथा तथा तदन्यविषयेभ्यो विरागस्तथातथा तत्त्वज्ञानदायम् । एतेन तहाढर्येन जन्तारधिकारिणो जीवत एव संसारबन्धान्मुक्तिरित्यर्थः ॥ ११ ।। शुद्धस्वान्ताः प्रशमकरणा वीतरागा विमाना वेदान्तोक्तौ भगवति गुरौ श्रद्दधाना अहिंस्राः। स्वच्छाचारा निपुणमतयो नित्यमोक्षप्सवो ये तेवीक्ष्येमं परमममृतं प्राप्नुवन्त्यात्मबोधात्॥१२॥ एवं निष्ठात्रयं सफलं संक्षेपेण निरूप्येदानीम् “अथातो ब्रह्मजिज्ञासा (ब्र० सू० १। १।१) इति सूत्रस्थाथशब्दार्थानन्त-- पेक्षितसाधनचतुष्टयरूपाण्यधिकारिविशेषणानि दर्शयस्तेषामधिकारिणामेतद्ग्रन्थविचारो ब्रह्म क्यसाक्षात्कारपर्यवसायो नेतरेषामिति दर्शयति-शुद्धस्वान्ता इति। शुद्धमीश्वराराधनलक्षणेन धर्मेण निर्दोष स्वान्तमन्तःकरणं येषान्ते तथोक्ता:। अनेन कर्मणां चित्तशुद्धिद्वारा ज्ञानोपयोगो दर्शित:, "कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्त्तते" इति स्मृतेः। अत एव प्रशान्तानि शमदमाभ्यां निग्रहणोपरतानि बाह्यान्यभ्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy