SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम् । विशेषणानि षट् । प्रथमेन विशेषणेन तस्या भोगनिष्ठायाश्चिन्तायाः संसारानर्थहेतुत्वम्, द्वितीयेनात्यन्तकुत्सितविषयत्वानिकृष्टत्वम्,तृतीयेन सकलपापहेतुभूतकामादिदोषविशिष्टत्वम्, चतुर्थेन शास्त्राचार्योपदेशजनितप्रज्ञाविनाशकत्वम्, पञ्चमेनासुरीत्वादनिष्टकरयोनिहेतुत्वम् , पष्ठेन विवेकिजनधिकृतत्वेन हेयत्वं दर्शितमिति विवेकः । प्रत्यनिष्ठायाश्चिन्ताया अवश्यकर्त्तव्यत्वे हेतुगर्भविशेषयानि सप्तोपादेयत्वात् । प्रथमंन सर्वानर्थनिवृत्तिहेतुत्वम, द्वितीयेन सज्जनरिष्टत्वेन स्वीकृतत्वम् , तृतीयेन श्रेष्ठविषयत्वाद्वरिष्ठत्वम, चतुर्थेन प्रामाणिकत्वम, पञ्चमेन निरतिशयसुखाविर्भावहेतुत्वम्, षष्ठेन प्रबल - साधनजन्यत्वम्, सप्तमेनाबाधितवस्तुविषयत्वादबाधितत्वं स्वप्रतिपक्षिनाशने प्रबलत्वञ्च दर्शितमिति विवेकः। अक्षरार्थस्तु निगदव्याख्यातः ॥ १०॥ बेधा निष्ठा श्रुतिभिरुदिता कर्म भक्तिश्च बोधः कापीशाचनमधिफलं चित्तशुद्धयेकहेतुः। भक्तिस्तज्जा हरिपदरतिः प्रेमदााद्विरागः तत्त्वज्ञानं जनयति हुढं मुक्तिरेतेन जन्ताः ॥११॥ एवं शास्त्रस्योपोद्वातं* सपरिकरमुपवयेदानी शास्त्रमारभतेत्रेधेति । एकैवनिष्ठा वेदतात्पर्यविषयीभूता तत्राधिकारिभेदेन साध्यसाधनभेदं परिकल्प्य त्रेधेत्युक्तिः : एकस्यैव वस्तुनो ज्ञेयध्येयसम~रूपेण वेदतात्पर्यविषयत्वात् । न वस्तुतो निष्ठात्रयमिति द्रष्टव्यम् । तत्रादौ कर्मनिष्ठास्वरूपं तत्फलञ्च संक्षिप्य दर्शयति-ईशार्चन मिति । भगवदाराधनलक्षणं नित्यनैमित्तिकाद्यनुष्ठानं कर्मस्वरूपमित्यर्थः । अधिफलमधिकं मोक्षफलात्परम्परया ज्ञानमेव फलं यस्य तत् । साक्षा *--चिन्ता प्रकृतसिद्धयर्थामुपोद्धात प्रचक्षते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy