SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ १८ प्रत्यक्तत्त्वचिन्तामणी रतिरेव परमपुरुषार्थाद् मोक्षादप्यभ्यहितत्वादादरणोयेति दर्शितमिति भावः ॥ ८॥ यद्वीक्ष्यासौ जनिमृतिभयागारसंसारभार त्यक्त्वा ब्रह्माद्यसुखनिधौ क्रीडतीशानभक्त्या। प्रत्यक्तत्त्वं श्रुतिभिरुदितं यद्विचारान्मुमुक्षु - र्जानात्येतत्स्वयमत इमं ग्रन्थमीक्षेत भक्त्या ॥८॥ श्रोतरुच्युत्पादनाय करिष्यमाणग्रन्थं महीकरोति-यद्वोक्ष्यति । असौ मुमुक्षुरीशानस्य भगवतः श्रीकृष्णस्य भक्त्या नवधा. रूपयाऽधिकारी भूत्वा, यत्प्रत्यक्तत्व अतिभिः वेदान्तैरुदितं प्रतिपादितं तं वीक्ष्य साक्षात्कृत्य, जनिमृतिभयागारभूतं संसारभारं दुःसहभारवद्वोढुमशक्य त्यक्त्वा ज्ञानेनाज्ञाननाशादपबाध्य, ब्रह्माद्वयसुखनिधौ क्रीडति । तदेतत् प्रत्यक्तत्त्वं यद्विचाराद्यस्य प्रत्यक्तत्त्वचिन्तामणिग्रन्थस्य पौर्वापर्यालोचनया स्वयमनायासेन जानाति साक्षात्करोति । अतो भक्त्या आदरेण इमं चिन्तामणिनामकं ग्रन्थमीक्षेत पौर्वापर्यालोचनया विचारयेदित्यर्थः ॥ ६॥ त्यत्तवा चिन्तां भवभयफलां भोगनिष्ठां कनिष्ठां दोषाविष्टां सुमतिहरिणीमत्यनिष्टां बहिःस्थाम् । प्रत्यनिष्ठां भवमृतिहरांसद्भिरिष्टां वरिष्ठां शास्त्रोद्दिष्टां भज सुखफलां भक्तिमृष्टां बलिष्ठाम्॥१०॥ एवं चिकीर्षितं प्रतिज्ञाय तत्फलश्च प्रदर्श्य मुमुक्षूणां हितमुपदिशति-त्यक्त्वेति। हे मुमुक्षो! भोगनिष्ठा चिन्तां त्यक्त्वा प्रत्यङ निष्ठां चिन्तां भजेति सम्बन्धः। भोगनिष्ठायाश्चिन्तायास्त्याज्यत्वे हेतुगर्भ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy