________________
प्रथमं प्रकरणम् । तत्साराशं यतिवरगिरा लब्धमादाय कुर्वे प्रत्यकचिन्तामणिमतिमुदा श्रीपतिप्रीतिकामः॥८॥
इदानीं निर्मूलत्वशङ्कानिवारणायास्य ग्रन्थस्य सम्प्रदायमूलकत्वकीर्तनपुरःसरं नामता निर्दिशन् स्वचिकीर्षितं प्रतिजानीते-सारा. दिति ! निगमो वेदः स एव दुरवगाहादिगुणविशिष्टतया जलधि: समुद्रस्तस्मात्सारप्रतिपादकतया साररूपादपि साक्षात्सारभूतब्रह्माद्वैत. परमेतच्छास्त्रं वेदान्ताख्य सुभगमुनिना शोभनैश्वर्यविशिष्टेन सकलवेदार्थावगन्त्रा भगवता व्यासेनाद्धृत वेदसमुदायानिष्कृष्योपनिषद्भाग: पृथक्कृतः सम्यगध्यायादिरूपेण स्थापितस्तमपि संगृह्य न्यायत: "अथातो ब्रह्मजिज्ञासा' (ब्र० सू० १ । १ । १) इत्यादिन्यायरूपेण सम्यनिबद्ध शारीरकमीमासाख्यौं शास्त्र सूत्ररूपं कृतमित्यर्थः । तत्साराश तस्य शासनस्यापि साराशं यतिवरगिरा यतीनां परमहंसानां मध्ये वरः साक्षाद् भगवत: पशुपतेरवतारतया वेदान्ताब्जभास्करो विनष्टप्रायब्रह्मविद्यासम्प्रदायाविर्भावहेतुर्भगवान् भाष्यकारः शङ्कराचार्यनामा तस्य गी: श्रुतिस्मृतिसूत्रभाष्यरूपा तया तत्प्रसादात्तदध्ययनादिना लब्ध स्वबुद्धवारूढमादाय तदेव मूलतया गृहीत्वा प्रत्यक्चिन्तामणि प्रत्यक्तत्त्वं ब्रह्मैक्यं वेदान्तप्रमेय यत्तद्विषयिणी चिन्ता चिन्तनमनुसन्धान प्रत्यकतत्त्वञ्च तद्विषयिणी चिन्ता चिन्तनप्रकारश्च तयोर्मणिरिव मणिः सर्वार्थभासकतया स्वरूप प्रकाशकस्तदवबोधजनक एतन्नामको ग्रन्थस्तं कुर्वे इति सम्बन्धः एतेन स्वकपोलकल्पितत्वमेतद्ग्रन्थस्य नास्तीति दर्शितम् । करिष्यमाणग्रन्थे स्वस्योत्साह दर्शयति-अतिमुदेति। ग्रन्थकरणप्रवृत्ती प्रवर्तकमाह-श्रीपतिप्रीतिकाम इति । लक्ष्मीकान्तस्य श्रीकृष्णस्य प्रीतिरेव कामो यस्य सः। यद्वा, श्रोपती या प्रीतिरनुरागप्रेमभक्तिरत्यादिशब्दवाच्या तद्विषयः कामोऽभिलाषो यस्य सः। एतेन श्रीकृष्णेऽव्यभिचारिणी
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com