SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्तत्त्वचिन्तामणौ सुजनप्रादुर्भावभूमजस्य पतिः पालकतया प्रसिद्धो हरिभक्तमुकुटचूडा. मणिः श्रीनन्दाख्यो गोपाधिपतिस्तस्य गृहे निवासभूमौ गोकुले वृन्दावने च यच्चेष्टितं सकल विश्वाधीशब्रह्मादिजनकत्वेऽपि शिशुत्व. नाटनम्, सर्वभूतसमत्वेऽपि विश्वपालनार्थ धर्मप्रतिपक्षिपूतनाद्यनेका. सुरसंहरणम्, निजानन्दतृप्तत्वेऽपि पयोदधिनवनीताद्यभ्यवहरणम्, शिवसनकादिसमाधिभाग्यत्वेऽपि वयस्यैर्विहरणम्, असाम्यानधिकैश्वाधिपतित्वेऽपि वत्सगवाद्यनुसरणम्, सर्वसौहार्दनिधित्वेऽपि ब्रह्मेन्द्रादिदर्पहरणम्, निरतिशयानन्दस्वभावत्वेनात्मारामाराध्यत्वेऽपि गोपवधूभिः साकं रासक्रीडादिभिर्विहरणमित्यादिरूपं तच्चेष्टितं स्मारं स्मारं पुन: पुनरतिशयेन स्मृत्वा, हरिगुणसुधां भक्तानामविद्यादि हरतीति हरि: गजेन्द्रनरेन्द्रद्रुपदजादिशरणागतार्तिहरणशीलत्वेन प्रसिद्धस्तस्य गुणाः कारुण्यशरण्यकृतज्ञत्वादयोऽनन्त. रसार्णवास्त एव सुधाश्रवणस्मरणकीर्तनादिना जननमरणादिभयध्वंसपुर:सरपरमपुरुषार्थमोक्षामृतदानेन परमामृतस्वरूपास्तादृशी हरिगुणसुधां सत्पयोधेः समुत्थां सन्तो ब्रह्मात्मसाक्षात्कारवन्तः सारग्राहिणो व्यासबाल्मीकिप्रभृतयः सद्वस्तुपर्यवसायिनो वेदाश्च त एव क्षीराब्धिरूपास्ततो विचारमथननिष्पन्नां पुनः पुनरतिशयेन पीत्वा श्रवणादिभिस्तत्स्वादुतामनुभूयेत्यर्थः भूयो भूयः पुनः पुनरिय मम मतिर्मदीया निश्चयात्मिका चेतावृत्तिरिदमेव तत्त्वं नातः परं किमपि तत्त्वमिति सम्यनिश्चित्यैव यदुपतिपदे यदुवंशस्य देवसमूहावतारभूतस्य कंसपरितापितस्य पति: कंसादिदुष्टनिवहणेन पालकस्तस्य श्रीकृष्णस्य पदे पदारविन्दे धावति गङ्गाप्रवाहसरणिरिव सिन्धावप्रतिबन्धेन तत्रैव पर्यवसानभूमौ पर्यवसन्ना सती निमग्ना भवतीत्यर्थः ।। ७ ।। सारात्मारं निगमजलधेरुद्धृतं शास्त्रमेतद्वेदान्ताख्यं सुभगमुनिना न्यायतः सनिबद्धम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy