SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ २६ प्रत्यकूतत्त्व चिन्तामणी भगवद्भक्तिरेव सर्वपुरुषार्थकामधेनुरिति सर्वैरेव मुमुक्षुभिः कर्त्तव्यत्वेनादर्त्तव्येति भावः ॥ १६ ॥ यावत्कृष्णे परिचितमतिर्जायते ना मुमुक्षुस्तावद् भ्रान्ति विषमभयदां नैव भेत्तं समर्थः । तस्माद्धीमान् हरिपदयुगे प्रेमभक्ति विशुद्धां संपाद्यास प्रभवति भवं छेत्तु मध्याससूलम् ॥१७॥ एतदेव दृढीकर्त्तु " यस्य देवे परा भक्तिः " ( श्वे० ६ । २३ ) “तप:प्रभावादेवप्रसादाच्च" ( श्वे० ६ । २१ ) "ईश्वराज्ज्ञानमन्विच्छेद" इत्यादिश्रुतिस्मृतिशतैः परमेश्वरप्रसादायत्तत्वात् तत्वज्ञानस्य तत्प्राप्त्यर्थ भक्तिश्रद्धाप्रणिपातपुरःसरं परमेश्वरस्यैवाश्रयणीयत्वेनान्वयव्यतिरेकाभ्यां प्रदर्शयंस्तद्भक्तिमेवोरकुर्वन्नाह — यावदित्याद्यष्टाभिः पचैः । अध्यास एव मूलं कारणं यस्य तमित्यर्थः । शेषमतिरोहितार्थम् । १७ ॥ शान्त्यागारे भ्रमहरपदे कान्तिकान्ताङ्किता स्वादुस्वादुस्मितमधुरतालंकृतास्येऽच्धानि । प्रेम्णा लभ्ये जलधितनयालिङ्गिते वेदगीते कृष्णे भक्ति श्रयत सुजनाः संसृतिध्वान्तभेत्रीम् ॥१८॥ भक्तिरसालं वनं भगवन्तं सैौन्दर्य्यमाधुर्य्यसौष्ठवादिगुणैरलङ्कृतं वर्णयंस्तद्भक्तेरवश्यकर्तव्यत्वं दर्शयति — शान्त्यागार इति । विद्यातत्कार्यनिवृत्तिरेव शान्तिस्तस्या आगारे तदास्पदे निरावरणज्ञानघनत्वात् सर्वमायिकविकारातीतेऽत एव ध्यातॄणां भ्रममनाद्यध्यासं हरतीति तादृशं परं चरणारविन्दं यस्य तस्मिन् कान्तिलक्षणया कान्तया नित्यमव्यभिचरितरूपया अङ्कितान्यङ्गानि यस्य तस्मिन्, स्वादुता Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy