________________
षष्ठं प्रकरणम् ।
२८७ एतावदेव सर्वशास्त्रविचारफलं सर्वप्रयत्नेन सम्पाद्यम् , तत्सम्पा. दनञ्च विषयवैराग्यभगवद्भक्तिभ्यामेव नान्यथेति वदन मुमुक्षून शिक्षयति-लब्ध्वेति । अतिदुर्लभमनन्तसुकृतपरिपाकं विना दुष्प्रापं नरजन्माधिकारि शरीरमिदं क्षणभङ्गुरतयानुभूयमानं मोक्षद्वारत्वादेवातिदुर्लभं लब्ध्वा प्राप्य भोगस्पृहामासुरीम्-असून प्राणेन्द्रियाणि रमयन्ति तर्पयन्तीत्यसुरास्तत्सम्बन्धिनी मतिम् , अत एव जडजनाभिमतां देहाद्यभिमानिमूढजनाभीष्टाम् , अत एवात्मनः पात: संसारान्धकूपे यया तामशेषत:प्रामनुष्यादाविरिन्च्यं साकल्येन त्यक्त्वा दृष्टानुश्रविकवैतृष्ण्यं प्राप्येत्यर्थः। तत्र हेतु:-विवेकीति । नित्यानित्यवस्तुविवेकवान् साधनचतुष्टयसम्पन्नः सन्निगमान्तविचारे तत्त्वमस्यादिवेदान्तवाक्यविचारे यतेत तत्त्वसाक्षात्कारपर्यन्तं प्रयत्नं कुर्यादित्यर्थः ॥ ७० ॥
वैराग्यमेव विषयेभ्य उदारभक्त्या
जातां मुमुक्षुमपवर्ग्यपथे युनक्ति। विष्णोर्गणश्रवणकीर्तनसंस्मृतिभ्यो
भक्तिर्भवेद्भगवतीश्वर आत्मनाथे ॥ ७१॥ तत्त्वज्ञानस्य पुष्कलं साधनं वैराग्यमेव, तच्च भगवद्भक्त्यधीनमित्याह-वैराग्यमिति । उदारस्य भगवतो वासुदेवस्य भक्त्या विषयेभ्यो वैराग्यमेव जातं सत् मुमुक्षुमपवर्यपथे पवर्गहितत्वात्तत्त्वज्ञानमपवयं तस्य पन्थास्तत्प्राप्तिमार्ग: श्रवणादिरूपस्तत्र युनक्ति योजयति । ननु भगवद्भक्तिर्जाता चेद्वैराग्यं जनयिष्यति तस्या एव कुतो जन्मेत्यत आह-विष्णोरिति । व्यापनशीलस्य भगवतो वासुदेवस्य गुणानुवादश्रवणकीर्तनसंस्मृतिभ्यो भगवति भजनीयगुण भक्तिर्भवेदित्यावश्यक तद्भजनं जीवानामिति बोधयितुम् 'ईश्वरे' इति, स्वामिप्रसादसिद्धये भृत्यैर्नित्यं यतितव्यमिति बोधयितुम् 'प्रात्मनाथे' इत्युक्तम् ॥ ७१ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com