________________
२८८
प्रत्यक्तत्त्वचिन्तामणौ वैराग्यभक्तियुत आत्मविचारमार्गे __सम्यग भवेदधिकृतो विमलान्तरात्मा। तत्वंपदार्थपरिशीलनतो विपश्चित्
प्राप्नोति बोधममलं ह्यपवर्गनिष्ठम् ॥७२॥
भक्तिवैराग्यसम्पन्नस्यैव वेदान्ततत्त्वविचारेऽधिकारी नान्यस्येत्याहवैराग्येति । तथा च भगवन्नामश्रवणकीर्तनस्मरणादिभिरुपायैर्भगवति वासुदेवे प्रेमभक्तिः सम्पाद्या। तत्प्रसादादैहिकामुष्किफलभोगेभ्यो वैराग्यं भगवदैश्वर्यंभूतं पुरुषधौरेयाणां स्वत एव सिद्ध्यतीति भावः ॥ ७२ ॥
न त्वंपदार्थमविविच्य कदापि बोधं
प्राप्नोति कश्चन मुमुक्षुरखण्डनिष्ठम् । तस्मात्त्वमर्थमभियुक्तनिरूक्तरीत्या
सम्यग्विविच्य तत आत्मपदं भजेत ॥७३॥
ननु भक्तिवैराग्याभ्यामेव तत्त्वज्ञाने सिद्ध कृतं त्वंपदार्थविचारेणेत्याशक्य भक्तिवैराग्याभ्यामपि त्वंपदार्थविचारद्वारैव तत्त्वज्ञानं जन्यत इत्याशयेनाह-नेति। त्वंपदार्थ साक्षितत्त्वं देहादिभ्योऽविविच्य तस्याः कर्तभोक्तस्वभावत्वेन विवेचनमकृत्वा कश्चनापि मुमुक्षुः कदापि अखण्डवस्तुनिष्ठं बोधं न प्राप्नोति । तस्मादभियुक्तः सूत्रकारभाष्यकारादिभिर्भगवद्वादरायणभगवत्पादादिभिर्निरुक्ता या रीतिनिर्णयप्रकारस्तया त्वंपदार्थ सम्यग विविच्य तत आत्मपदं वेदान्तप्रतिपाद्यमखण्डबोधरूपं ब्रह्मात्मैक्यं भजेत प्राप्नुयादित्यर्थः ॥ ७३ ॥
देहादिवर्गगतनैजमतिं विहाय
प्रत्यञ्चमेकमजडं जडसाक्षिणं स्वम् । ५..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com