SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ २८६ प्रत्यक्तत्वचिन्तामणी स्वरूपमहिम्ना निवृत्तं परिहृत्य नास्तीति विनिश्चित्य, तदर्पितान ताभ्यां मायाविद्याभ्यां परिकल्पितान् परोक्षत्वापरोक्षत्वादीन विरुद्धधर्मगणान् विहाय शुद्धस्वरूपनिधर्मकब्रह्मचैतन्यमहिम्नैव न सन्तीति निश्चित्य, विशुद्धचैतन्यमखण्डाद्वैततत्त्वं तत्त्वंपदार्थयो: स्वरूपं निगमेन तत्त्वमस्यादिवाक्येन बोध्यते इत्यर्थः । तथा च ब्रह्मात्मैक्यमविद्यातत्कार्यसकलप्रपञ्चस्य नित्यनिवृत्तत्वञ्च सिद्धमेव श्रुया बोध्यते इति भावः । तदुक्तं "नित्यबोधपरिपीडितं जगद्विभ्रमं नुदति वाक्यजा मतिः । वासुदेवनिहत धनन्जयो हन्ति कौरवकुलं यथा पुनः" ।। ६८॥ विज्ञाय चैतन्यमखण्डमद्वयं प्रत्यञ्चमानन्दमशेषसाक्षिणम् । विमुच्यते शेषविकल्पकारणं निहत्य माहं भवपजरात् सुधीः ॥ ६८ ॥ अविद्यानिवर्तकतत्त्वसाक्षात्कारे सिद्धे “विमुक्तश्च विमुच्यते" (क० २ । ५।१ ) "निवृत्तश्च निवर्त्तते'' इति श्रुतेः स्वत एव दृश्यात्यन्ताभावोपलक्षितस्वरूपावस्थानलक्षणा मुक्ति: सिद्ध्यति । अखण्डबोधफलं वदन्नुपसंहरति-विज्ञायेति । अशेषसाक्षिणं प्रत्यञ्च चैतन्यमखण्डवाक्यार्थ विज्ञाय साक्षात्कृत्याशेषविकल्पकारणं मोइमज्ञानं निःशेष निहत्यापबाध्य सुधीस्तत्त्वज्ञो भवपजराद् विमुच्यते इति योजना ॥६६॥ लब्ध्वाऽतिदुर्लभमिदं नरजन्म मेक्षि द्वारं यतेत निगमान्तगिरां विचारे। त्यक्त्वाऽऽसुरीमतिमशेषत आत्मपातां भोगस्पृहां जडजनाभिमतां विवेकी ॥७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy