SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २५२ प्रत्यकूतत्त्वचिन्तामणौ नेति । गगनादीनां चिद्विवर्त्तत्वं यत् तदपि निगमवाक्यैः "तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः वायोरग्निः प्रग्नेराप:, अद्द्भ्यः पृथिवी" ( तै० २ । १ । १ ) इत्यादिश्रुतिवचनैर्बोधोऽद्वैततत्त्वावबोधस्तत्सिद्धये उच्यते । कथं निशिछद्राद्वह्मणः छिद्ररूपाकाशोत्पत्तिः ? आकाशादस्पर्शाचलरूपाद्वायोरुत्पत्तिः, वायोरूपादप्रकाशाऽनुष्णादिस्वभावात्तद्विरुद्धस्वभावस्य अग्ने, अग्ने - रशीताद्रवारसादिस्वभावात्तद्विरुद्धस्वभावस्य जलस्य, जलादगन्धाकठिनादिस्वभावात्तद्विरुद्ध स्वभावायाः पृथिव्या उत्पत्तिः इति कथं सम्भावनापथमवतरेत् ? प्रखण्डैकरसस्वभावाद्ब्रह्मणः कथमित्थं विचित्रभूतात्पत्ति: १ इत्याकाङ्क्षायामाह — अध्यस्त विश्वमिति । यस्य यत्रात्यन्तासम्भवः, तस्य तत्र भानमध्यासः । नीरूपेऽपि गगने रूपविशेषनीलिमाद्यध्यासः, रज्जौ सर्पादेः, स्वप्नद्रष्टरि सर्वासम्भावित - स्वशिरश्च्छेदादिविरुद्धकल्पनाद्यध्यासेो दृष्टचरः; अतो मायाशबले ब्रह्मणि वस्तुतो निश्च्छिद्रादिस्वभावेऽपि सर्वव्यवहारानास्पदे कार्य्यकारणभावविनिर्मुक्तेऽपि सर्वमत्यन्तासम्भावितमपि मायैव दर्शयति । न ह्यघटितघटनापटीयसीं मायां स्वीकुर्वतामिदं दूषणं यद्युक्त्य सहत्वम्, किन्तु भूषणमेव; इतरेषां वादिनामेवेदं दूषणं युक्तिमात्रैकशरणानाम्, "नैषा तर्केण मतिरापनेया" ( क० २ । ८ ) इति श्रुतेः; " तर्काप्रति - ष्ठानात्” ( ब्र० सू० २ । १ । ११ ) इति न्यायात्, “प्रचिन्त्याः खलु ये भावा न तस्तिर्केण योजयेत्" इति महाभारतवचनाच्च; "नाऽप्रतिष्ठिततर्केण गम्भीरार्थस्य निश्चयः" इति पुराणान्तराच्च । सर्वतार्किका विरुद्धमिति तदिदमध्यस्तं क्रमेण वर्ण्यते श्रुत्या किमर्थ - मित्यत्राह — इतरेति । इतरेषां तार्किकादीनां श्रुतिविरुद्धाकाशादिनित्यत्वादिवाद एव ध्वान्तं तमः श्रुत्यर्थज्ञानप्रतिबन्धक साम्यात् तद्विध्वंसनाय तद्वादविध्वंसने सति श्रुतिशिखर सिद्धान्ते सुखेन मुमुक्षूणां प्रवेशः स्यात् । तद्वादान्धकारनिरास प्रकारस्तु सम्यगद्वै ततत्त्वस्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy