________________
षष्ठं प्रकरणम् ।
२५३ जगज्जन्माद्यभिन्ननिमित्तोपादानत्वप्रतिपादनपरे नवमे प्रकरणे वक्ष्यते इति भावः ॥ १२ ॥ विभुरपि परमात्मा माययाऽधिष्ठितामा
सृजति गगनमादा शब्दतन्मात्ररूपम् । द्विविधमपि ख इष्टं रूपमैशं सदान्ध्यं
ह्यनृतमिति गिरांस्थाद्धतुराधार आद्यः॥१३॥ प्रतिज्ञातमाकाशादिजन्मक्रमं दर्शयति । तत्र "आत्मन आकाश: सम्भूतः” ( तै० २ । १ । १) इति श्रुतेरंशस्यार्थमाह-विभुरिति । परिपूर्णतया निजमहिम्नि स्थितोऽपि परमात्मा परमेश्वरोऽसौ मायया स्वाधीनशक्त्याधिष्ठितोऽधिष्ठानत्वेन स्वीकृतः सन् तस्यां मायायां स्वप्रतिबिम्बदानेनादा गगनं सूक्ष्मत्वालिप्तत्वादिधम्मै रुपलक्षितं प्रथम कार्य शब्दतन्मात्ररूपं सृजति-स्वसत्तास्फूर्तिभ्यामाविर्भावयति । तस्मिन्गगने रूपद्वैविध्यं दर्शयति-द्विविधमिति । खे आकाशे रूपं द्विविधमिष्टं भवति। तदेवाह-सदिति। आकाशोऽस्ति, तस्मिन् सत्तारूपमैशमीशसम्बन्धि प्रान्ध्यमज्ञानकृतमनृतमिति । सत्तात: पृथक्कृते आकाशो नास्तीत्याकाशस्यानिर्वाच्यं रूपं मायिकम्, एवं सर्वत्र वाय्वादावपि द्रष्टव्यम् । आकाशकार्यमाह-गिरामिति । शब्दगुणत्वादाकाश एव सर्वेषां शब्दानां कारणमाधारश्च सर्वभूतभौतिकानामवकाशदानेन आद्यः वाच्याद्यपेक्षया प्रथमो विकार ईदृशगुणविशिष्टमाकाशं परमेश्वरः सृजतीति सम्बन्धः ।। १३ ॥ गगनयुतपरेशः स्पर्शमानं समीर
सृजति गतिमुखानां हेतुमाकाशवासम् । गगनपवनयुक्तो रूपमात्रञ्च तेजः
सृजति विविधरूपोद्भूतिहेतुप्रकाशम् ॥१४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com