________________
२५४
प्रत्यक्तत्त्वचिन्तामणौ "आकाशाद्वायुः” इत्यंशस्यार्थमाह-गगनेति । गगनभावमापन्नः परेशो मायावी शब्देन संयुतं स्पर्शतन्मात्ररूपं समीरं सृजति । आकाशे वासो यस्य तं तत्कार्यमाह-गतिमुखानामिति। गतिश्वलनं तदादीनां सर्वेषां वायुधर्माणां हेतुम् । वायोरग्नि रित्यस्यार्थमाह-गगनेति । एवं शब्दस्पर्श गुणद्वयात्मकं वायु सृष्ट्वा गगनपवनभावमापन्नः परशस्तद्गुणशब्दस्पर्शविशिष्टं रूपमात्रञ्च तेजोऽग्नि सृजति; तत्कार्यमाह-विविधेति । विविवरूपाणामुद्भतिरुत्पत्तिस्तस्या हेतुः कारणं प्रकाशं प्रकाशस्वरूपमित्यर्थः ॥ १४ ॥
तदनु रसगुणाम्भः सृज्यमीशः ससर्ज
क्षितिमखिलभवस्याधारभूतां ससर्ज। सकलगुणकलाढ्यां शक्तिमाश्रित्य मायां
सृजति हरिरशेषं विश्वमध्यस्तमाशु ॥ १५ ॥
अग्नेराप इत्यस्यार्थमाह-तदिति । तदनु शब्दस्पर्शरूपगुणविशिष्टं तेजः सृष्ट्वा शब्दस्पर्शरूपरसगुणमम्भः सृज्यं प्राणिनामाप्यायनकरत्वादत्यन्तं स्रष्टुं योग्यम् ; यद्वा, तत्स्वरूपकीर्तनमीश: ससर्ज । तत्कार्यमप्यत्राप्यायनक्लेदनादिरूपं बोध्यम् । अद्भ्यः पृथिवीत्यस्यार्थमाह-क्षितिमिति । पूर्वोक्तचतुर्गुण विशिष्टां गन्धगुणां पृथिवीं ससर्ज; तत्कार्यमाह-अखिलस्य भवस्याधारभूतामिति । एवं पञ्चभूतसृष्टिमुक्ता भौतिकसृष्टिं वदन् तत्रासम्भावनां वारयन्नाह-सकलमिति। हरियां शक्तिं सकला गुणाः सत्त्वाद्याः कला नियमनाद्याः शक्तयस्तदाढयामाश्रित्याशेष विश्वं ब्रह्माण्डं तदन्तर्वति सर्व भौतिकं जगदाशु सत्यसङ्कल्पत्वात् सृजतीति न क्वाप्यसम्भावना कायेति भावः ॥ १५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com