SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ षष्ठं प्रकरणम् । ___२५५ सत्त्वं रजस्तम इति प्रकृतेः स्वरूपं तत्कार्यभूतखमरुत्मभृतीनि तद्वत् । तेभ्यः समुद्भवति सूक्ष्मशरीरजातं सूक्ष्मेभ्य आलयमिदं व्यवहारहेतुः ॥ १६ ॥ एवं सक्षेपेण भूतभौतिकसृष्टिमभिधायेदानों भौतिकसृष्टिं विस्तरेण वक्तु कामो मायायास्त्रिगुणात्मकत्वात् तत्कार्याण्याकाशादीन्यपि त्रिगुणात्मकानीति वदन तेभ्यः सूक्ष्मशरीरोत्पत्तिमाहसत्त्वमिति । सत्त्वं रजस्तम इति प्रकृतेर्मायाया स्वरूपम् , न तु गुण. गुणिभावो विवक्षितः। अत एव तत्कार्याणि भूतानि प्राकाशमरुत्प्रभृतीनि तद्वत् सत्त्वरजस्तमोगुणात्मकानि तेभ्य एतेभ्यः सूक्ष्मभूतेभ्योऽपञ्चीकृतेभ्यः सूक्ष्मशरीरजातं सप्तदशावयवात्मकं समुद्भवति । इदं सूक्ष्मशरीरमालयं मोक्षपर्यन्तं व्यवहारहेतुः, इहलोकपरलोकयात्रानिर्वाहकत्वात्तत्त्वज्ञानमन्तरेणानुच्छेद्यत्वात् सुषुप्तौ प्रलये च संस्काररूपणावस्थितत्वाच्च सर्वसंसारव्यवहारकारणमिदमेवास्तीत्यर्थः ॥१६॥ व्योमादिसात्विकलवेभ्य उदेति बुद्धि स्तद्वन्मनोऽपि मिलितेभ्य इतः पृथक्वात् । ज्ञानेन्द्रियाण्यपि भवन्ति ततो रजोऽशैः कर्मेन्द्रियाण्यसवामिलितैःरजेशैः॥१७॥ तदुत्पत्तिप्रकारमेव दर्शयति-व्योमादीति। पाकाशादिसात्त्विकांशेभ्यो मिलितेभ्यो बुद्धिनिश्चयात्मिकाऽन्तःकरणवृत्तिस्तद्वदेव मन: सङ्कल्पविकल्पात्मिकाऽन्तःकरणवृत्तिरुदेति । इतः पृथत्वात् एतेभ्य आकाशादिसात्त्विकांशेभ्यो व्यस्तेभ्यो ज्ञानेन्द्रियाण्यपि श्रोत्रादीनि भवन्त्युत्पद्यन्ते । तथाहि-माकाशसात्त्विकांशाच्छ्रोत्रमुत्पद्यते, वायोः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy