SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ षष्ठं प्रकरणम् । तदनु सकलकर्म्मज्ञानकामानुरोधात् बहुभवनवतीच्छा स्यामहञ्चेत्युदेति ॥ ११ ॥ " एतदेव विवृणोति शबलमिति । तद्वस्तुतोऽच्छं स्वच्छ मद्वैतमेव स्वशक्त्या मायादेव्या शबलमपि विविधा नानाप्रकारका ये विद्याकामकर्मादिपरिपाकरूपरसास्तैर्विचित्रामनन्त भेदवतीं सृष्टि रचनामाधातुं सम्यक् कर्त्तुमैच्छत् । तदनु जीवादृष्टरूपाणि कर्माणि धर्माधर्मात्मकानि ज्ञानानि तत्तदुपासनात्मकानि कामा इच्छाभेद: तत्संस्काराश्च तेषामनुरोधाद् बहुभवनवती या इच्छा " बहु स्यां प्रजायेय" ( छा० ६ । २ । ३ ) इति चोदेति तस्मिन्नेव ब्रह्मणीति योजना । एतदुक्तं भवति - सर्गाद्यकाले परमेश्वर: सृज्यमानप्रपञ्चवैचित्र्य हेतु प्राणि कर्मादिसहकृतापरिमितानिरूपितशक्ति विशेषमायासहितः सन् नामरूपात्मकनिखिल प्रपञ्च ं बुद्धाकलय्येदं करियामीति सङ्कल्पयति " तदैक्षत बहु स्यां प्रजायेय " ( छा० ६ । २ । ३) इति " सोऽकामयत बहु स्यां प्रजायेय" ( तै० २ । ६ ) इत्यादिश्रुतेरिति । तत प्रकाशादीन्यपञ्चीकृतानि पञ्चमहाभूतानि तन्मात्रपदप्रतिपाद्यान्युत्पद्यन्ते इति ॥ ११ ॥ गगनपवनतेजावार्भुवश्चिद्विवर्त्ता " - २५१ स्तदपि निगमवाक्यैरुच्यते बोधसिद्ध्यै । कथमिति तदिदानीं वर्ण्यतेऽध्यस्तविश्वं क्रमश इतरवादध्वान्तविध्वंसनाय ॥ १२ ॥ श्राकाशादीनां ब्रह्मविवर्त्तत्वमितरवादिमतान्धकारनिरास फलकं प्रदर्शयन्नत्यन्तासम्भावितप्रपञ्चरचनाया मायावादमन्तरेण न कथव्चिदसम्भव इति श्रुतिसिद्धान्तविवर्त्तवाद एव श्रेयानित्याह-गग Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy