SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ प्रत्यकूतत्त्वचिन्तामयौ प्रपञ्चस्यावधित्वात् प्रधिष्ठानत्वात् । तस्माद् ब्रह्माद्वयात् स्वाधिष्ठानभूतादिदं जगदध्यस्तमण्वपि ईषदपि पृथक् स्वसर्त्ता न भजते, कालत्रयेऽप्यत्यन्ताभावप्रतियोगित्वादिति बोधयितुं सम्यग् ज्ञापयितुं २५० प्रपञ्चः, तथावर्णनं सङ्गच्छते । नाध्यस्त प्रपञ्चाधिष्ठानत्वमात्रेण ब्रह्मणः सप्रपञ्चत्वं शङ्कितुमपि शक्यम्, न ह्यध्यस्तजलेन मरुस्थलं पङ्को क्रियते, न वा नीलिम्ना व्योम रूपवद्भवतीति भावः ॥ ८ ॥ निरवधिपदमेकं सत्यमेवाद्वितीयं श्रुतिशिखरवचोभिः प्रोक्तमेतज्जनेः प्राक् । अघटितघटनायां दक्षिणामात्ममाया मुपगतमभवत्तद् ब्रह्म सर्वेश्वरं सत् ॥ १० ॥ जगज्जन्मादिकारणत्वं ब्रह्मणस्तटस्थं लचणमुक्तम्, तत्कथं ततेा जगज्जन्मादि स्यात् ? इत्याकाङ्क्षायां सप्रकारं जगज्जन्मादि ब्रह्मणः सकाशादुपपादयिष्यन्नादैा तत्स्वरूप कीर्त्तनपुरःसरं सप्रमाणकं तद्वक्तुमुपक्रमते — निरवधीति । "सदेव सौम्येदमग्र आसीत् ' ( छा० ६ । २ । १ ) “एकमेवाद्वितीयम्” (छा० ६ । २ । १) " आत्मैवेदमग्र आसीत् " ( बृ०१ | ४ । १) "ब्रह्म वेदमग्र आसीत् " ( बृ० १ । ४ । १० ) इत्यादिवेदान्तवाक्यैरेतस्य जगतेा व्याकृतस्य नामरूपात्मकस्य जनेः सृष्टेः पूर्व सत्यमबाध्यम्, निरवधि पदमपरिच्छिन्नस्वरूपम् एकं सजातीय भेदशून्यमेवं स्वगतभेदशून्यम्, अद्वितीयं विजातीयभेदशून्य ं ब्रह्मैवासीदिति प्रोक्तम्, तद् ब्रह्म प्रघटितस्यात्यन्तासम्भावितस्य घटना रचना तस्यां दक्षिणामत्यन्तचतुरां मायाँ प्रकृत्यादिशब्दवाच्यामुपगतं चित्प्रतिबिम्बरूपगर्भाधानद्वारा पुमान् योषितमिवात्यन्तसन्निधिं प्राप्तं सत् सर्वेश्वरमभवदिति योजना ॥ १० ॥ 1 शबलमपि तदेवाद्वैतमच्छं स्वशक्त्या विविधरसविचित्रां सृष्टिमाधातुमैच्छत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy