________________
षष्ठं प्रकरणम् ।
२४६ अस्ति प्रियं स्फुरति सर्वमिति प्रतीचोऽ
धिष्ठानतोऽपृथगिदं विकृतञ्च नाम ॥८॥ एतादृशमेवोपादानत्वमभिप्रेस “इदं सर्व यदयमात्मा” ( बृ० २ । ४ । ६) "सच्च त्यच्चाभवद्" "बहु स्यां प्रजायेय" (छा० ६ । २। ३) इत्यादिषु श्रुतिषु ब्रह्मप्रपञ्चयोस्तादात्म्यव्यपदेश इत्याशयेनाह-अध्यस्तेति। अद्वयानन्दात्मनि चैतन्ये यतो विश्वमध्यस्त ततोऽधिष्ठानानतिरिक्तत्वात् त्रिविधरूपतया विभाति, अस्ति भाति प्रियमिति सर्वमपि प्रत्यगभिन्नब्रह्मणोऽधिष्ठानतः सकाशाद् यत इदमपृथङनामरूपात्मकं जगत्तस्मात् सच्चिदानन्दरूपब्रह्मैक्याध्यासाद् घटः सन्, घटो भाति, घट इष्ट इत्यादिलौकिकव्यपदेशोऽपि सङ्गच्छते इत्यर्थः । जगति नामरूपद्वयव्यवहारस्तु अविद्यापरिणामात्मकनामरूपसम्बन्धात् । तदुक्तम्
"अस्ति भाति प्रियं रूपं नाम चेत्यशपञ्चकम् ।
आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥" इति द्रष्टव्यम् ॥ ८॥
मायामयं विविधनामविकारजातं
सत्यं सुखाद्यपदं सकलावधित्वात् । नाध्यस्तमण्वपि पृथग्भजते स्वसत्तां
ब्रह्माद्वयादिति च बोधयितुं प्रपञ्चः ॥६॥
ननु ब्रह्मणो जगदुपादानत्ववर्णनेन तस्य सप्रपञ्चत्वं स्यात, तस्य चानिष्टत्वात; तथावर्णनमनुचितमित्याशङ्क्याह-मायामयमिति । विविधनामविकारजातं मायामयं मिथ्यैव भवति, रज्जुसर्पादिवत् कल्पितत्वात् । सुखमद्वैतं ब्रह्मैव सत्यं भवति, सकलकार्यकारण
३२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com