________________
तृतीयं प्रकरणम् ।
११३ मिति तत्राह-मानप्रकाशायेति । प्रमात्रायधिष्ठानत्वेन प्रमाणप्रकाशो यस्मात्तस्मै । नहि साक्षिचैतन्यमृते प्रमाणानां स्वतोऽनुभवजनने शक्तिः, प्रमाणशब्दवाच्यानां वृत्तिविशेषाणां जडत्वात् । ततस्तदारूढं चैतन्यमेवानुभवजनकमिति भावः । ननु प्रमाणादिभालकत्वेन प्रसिद्धस्यात्मनः सुखादिभिन्नतया पुमर्थत्वाभावात् कथं नमस्कार्यत्वम् ? इत्यत आह-पुमर्थसीम्ने इति। "न स पुनरावर्त्तते" (छा०८। १५ । १) इति श्रुत्या तस्यैव परमपुरुषार्थत्वेन निश्चितत्वात पुरुषार्थत्वं त्वत्रैव पर्यवसन्नमित्यर्थः। तत्र हेतुमाह-विभूम्ने इति। विगतो भूमा यस्माद्-यमपेक्ष्यान्यो भूमा नास्तीत्यर्थः । “यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा" (छा० ७ । २४ । १) “यो वै भूमा तत्सुखं नाल्पे सुखम्' (छा० ७ । २३ । १) इत्यादि श्रुतिसिद्धापरिच्छिन्नसुखस्वरूपस्य विभूम्नो ब्रह्मण एव पुमर्थसीमत्वमिति भावः । नन्वविद्यादिप्रतिबन्धसत्त्वे कथं पुमर्थसीमत्वेन तस्य ज्ञानमिति तत्राह-श्रीमाधवायेति । श्रिया ब्रह्मविद्यया मां मायाशक्तिं सर्वव्यामोहकी धुनोति भक्तानामिति श्रोमाधवः । यद्वा, मा वेदान्तजा प्रमा तस्या धवः पतिः साक्षादनायासेन भक्तेभ्यो दातृत्वेन स्वामीति माधवः ।
"मा विद्या च हरेः प्रोक्ता तस्या ईशो यतो भवान् । तस्मान्माधवनामासि धव: स्वामीति शब्दितः ॥"
इति हरिवंशे श्रीरुद्रवाक्यम्। श्रीमश्चिासौ माधवश्च स च तस्मै श्रीमाधवाय नमः-प्रबोभावोऽस्तु। तथा च तत्त्वज्ञानदानेनाऽविद्यातत्कार्यमपबाध्य पुमर्थसीमत्वेन स्वरूप एव सन् स्वभक्तानां स्वयमेव भगवानाविर्भवतीत्यर्थः। अत एव सर्वोत्तमैः शिवविरच्यादिभिः सद्भिर्येयोऽवश्यं ध्यातव्यो महामहिमा उदारमाहात्म्यं यस्य तस्मै। तथा च मुकुन्दमाधवादिशब्दवाच्यात्मतत्त्वमेव सर्ववेदान्तप्रतिपाद्यत्वेन शास्त्रप्रमेयम्, तदेवात्र प्रतिपाद्यते इति भावः ॥ २॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com