SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ११२ प्रत्यकतत्त्व चिन्तामयैर तथाभूतस्य नमस्कार्यत्वमपि कथमिति तत्राह —- मुकुन्दायेति । तथाभूतोऽपि भक्तानुप्रद्दाय प्रादुः कृतानन्तकल्याणगुणग्यालङ्कत निरतिशयानवधिक सैौन्दर्य्यमाधुर्य्य सौष्ठवपारावारलीलाविग्रहो भगवान्मुकुन्दो नमस्कार्य इत्यर्थः । तस्य नमस्काय्र्यत्वमत्यन्तप्रसिद्धमित्याह — ब्रह्मादीति । तथा च द्रष्टृत्वादिगुणकैरीश्वरत्वेन लोकप्रसिद्धैरपि वन्दनीयपदारविन्दत्वान्नमस्कार्यो भगवान्मुकुन्द इत्यर्थ: । लीलाविग्रहं भगवन्तं विशिनष्टि — रमाश्रितायेति । रमा ब्रह्मविद्याशक्तिस्तयाऽऽलिङ्गिताय । तथा च ब्रह्मविद्यारूपर माशक्तयाऽऽलिङ्गितत्वेनैव लीलाविग्रहप्रदर्शनं भगवता क्रियते भक्तानुग्रहायेत्यर्थः । सलीलाविग्रहो भगवान् किं स्वरूप इत्यत्राह - अद्वय चित्सुखायेति । अद्वयं द्वैतवर्जितं यच्चित्सुखं स्वज्योतिरानन्दस्तद्रूप एव लीलाविग्रहो भगवान्मुकुन्दस्तस्मै नमोऽस्त्वित्यर्थः ॥ १ ॥ मानातिगायानुभवैकधाम्ने मानप्रकाशाय पुमर्थसीम्ने सर्वोत्तमध्येय महामहिम्ने श्रीमाधवायास्तु नमो विभूने ॥ २ ॥ एवं सामान्यतः शास्त्रप्रमेयमुक्ता प्रारिप्सितप्रकरणस्यासाधारणप्रमेयं सूत्रयति - मानातिगायेति । सर्वप्रमाणातीतायेत्यर्थः । सर्वप्रमाणातीतस्य कथमनुभव इत्यत आह- अनुभवैकधाम्ने इति । अनुभव एवैकं मुख्यं धाम प्रकाशस्तद्रूपायेत्यर्थः । नहि स्वतेऽनुभवरूपोऽनुभवान्तरमपेक्षते ऽनवस्थापातादिति भावः । यद्वा, अनुभवस्यैकमसाधारणं धाम निवासभूमिस्तद्रूपाय । तथा च सर्वानुभवाधिष्ठानवस्तुनाऽतिरिक्तस्यानुभवस्याभावात् कथं तदपेक्षेति भावः । नन्वनुभवजनकानि प्रत्यक्षादीनि प्रमाणानि किमिति स एव सर्वानुभवाधिष्ठान ܘ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy