________________
अथ तृतीयं प्रकरणम् अचिन्त्यरूपाय वचोतिगाय
ब्रह्मादिवन्द्याङ्घ्रिसरोरुहाय । दृश्यातिगायाऽद्वयचित्सुखाय
नमो मुकुन्दाय रमाश्रिताय ॥१॥ यं श्रीमन्तमुपासते मुनिगणा ब्रह्मादिदेवा रमा वेदान्ताः समपोह्य दृश्यमखिलं यस्मिन्प्रतिष्ठां गताः । आश्रित्यामलबोधगोचरमजं यं मुक्तिभाजो भवन हीना अप्यखिलैर्गुणैर्वजपतेरङ्के गतं तं भजे ॥ १ ॥ नन्दनन्दनमानन्दमानन्दप्रदमद्भुतम् । आनन्दाय सदा वन्दे नन्दाङ्कगतमादरात् ॥२॥
अतीतानन्तरप्रकरणे "श्रवणादिभिरात्मान्वेष्टव्यः” इत्युक्तं तत्र प्रमाणभावाभावाभ्यामनिष्टत्वापादनशङ्कानिराकरणेनात्मनः स्वप्रकाशत्वमुपपादयितुं प्रकरणान्तरमारभमाणः स्वेष्टदेवतानमस्कारव्याजेन प्रकरणप्रतिपाद्यमर्थ सङ्क्षिप्य दर्शयति-अचिन्त्यरूपायेत्यादिपद्यद्वयेन । “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" (तै० २।४) "यन्मनसा न मनुते" ( तै० २ । ५) "यद्वाचानभ्युदितम्” ( तै० २।४) इत्यादिश्रुतिसिद्धवाङमनसगोचरातीतस्वरूपाय मुकुन्दाय नमोऽस्त्विति सम्बन्धः। तत्र हेतुः-दृश्यातिगायेति । दृश्य दर्शनकर्माहमविद्यातत्कार्यवर्गश्च तदतिक्रान्ताय । ततो जातिगुणक्रियाविशेषणादिवाच्यचिन्त्यधर्मातीतत्वात्तथाभूताय नमः-प्रबोभावोऽस्तु। ननु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com