________________
११०
प्रत्यकूतत्त्वचिन्तामयै ।
निरवधिसुखसिन्धा यत्कृपालेशयेोगाद् विहरति सुविपश्चित्तं प्रपद्ये मुकुन्दम् ॥ ७८ ॥
इति प्रत्यक्तवचिन्तामणौ द्वितीयं प्रकरणं सम्पूर्णम् ॥ २ ॥
ससाधनमात्मज्ञानमोश्वरप्रसादाधीनं तत्प्रसादश्च तदनन्यशरणत्वेनैव लभ्यस्तदर्थं तमेवानन्यशरणत्वेनाश्रयेदिति मुमुक्षून शितयन् स्वयमाश्रयति - श्रवणेति । यत्कृपालेशयोगाच्छ्रवणमननाद्युपायसिद्धब्रह्मविद्यार्कभासा समूलभ्रमतिमिरं मिथ्याज्ञानध्वान्तमशेषं सकार्य बाधित्वा सुविपश्चित् सम्यकूतत्त्वज्ञानी निरवधिसुख सिन्धावपरिच्छिन्नानन्दसमुद्रे विहरति क्रीडति, " प्रात्मक्रीड आत्मरतिः” ( छा० ७ । २५ | २ ) इत्यादिश्रुतेः । तं मुकुन्दं मुक्तिदातृत्वेन प्रसिद्धं भगवन्तं श्रीकृष्णं प्रपद्ये शरणं व्रजामीति योजना ॥ ७८ ॥
शरण्यादिगुणाधारं सारं सारविदां वरम् । चिदानन्दघनाकारं वारं वारं हरिं नुमः ॥ १ ॥
इति श्रीमन्मुकुन्दपदारविन्दमकरन्दाभिलाषिसदानन्द विद्वत्कृतायां प्रत्यकूतत्त्वचिन्तामणिव्याख्यायां स्वप्रभाभिधार्या श्रवणविधिमयूखाभिधं द्वितीयं प्रकरणं समाप्तिमगमत् ॥ २ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com