SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ द्वितीयं प्रकरणम् । १०६ तत्र साधनसम्पन्नः शुद्धान्तःकरणः पुमान् ।। श्रवणादी प्रवृत्तः सन् स्वज्ञानं लभतेऽञ्जसा ॥७६ ॥ एवमविद्यामूलकाध्यासकार्यसंसृतिं प्रदर्श्य तन्निवृत्तिप्रकारं संक्षेपेण दर्शयति-तन्नेति। तत्राऽनादी संसृतिप्रवाहे कश्चित्पुण्यपुजैः पुमान लब्धाधिकारिशरीरः सुकृतपरिपाकेन शुद्धान्तःकरणस्तत्फलसाधनचतुष्टयसम्पन्नः श्रवणादा तत्त्वज्ञानसाधने प्रवृत्तः सन्नजसा भगवत्प्रसादादनायासेन स्वस्य ब्रह्मात्मैक्यतत्त्वस्य ज्ञानं साक्षात्कारात्मकं लमत इति योजना ॥ ७६ ॥ तत्त्वज्ञाने समुत्पन्ने सकार्याज्ञानबाधनात् । जीवन्मुक्तो निजानन्दे तिष्ठत्युज्झितसंसृतिः ॥ ७ ॥ ततः किमित्यत आह-तत्त्वज्ञान इति ॥ ७७ ॥ तस्मादध्यासमूलस्वाज्ञानबाधोपपत्तये। प्राचार्याश्रयणेनात्माऽन्वेष्टव्यः श्रवणादिभिः ॥७८॥ प्रकृतमुपसंहरति-तस्मादिति। यस्मादज्ञानमूलकोऽनर्थस्तस्मादध्यासमूलभूतात्माज्ञानबाधस्योपपत्तिः सिद्धिर्यस्मात्तत्त्वदर्शनात्तदर्थम् 'भाचार्यवान्पुरुषो वेद' (छा०६।१४। २) इत्यादिशास्त्रादाचार्याधीनात्मज्ञानोत्पत्तिः। तस्मात्तदाश्रयणेन सेवादिनाऽनुकूलाचरणेनाभिमुखीकृत्य तमाचार्य ततः श्रवणादिभिरात्मज्ञानसाधनैरात्माऽन्वेष्टव्यो विचारेणान्विष्य ज्ञातव्य इत्यर्थः ॥ ७८ ।। श्रवणमननसिद्धब्रह्मविद्यार्कभासा भ्रमतिमिरमशेषं नाशयित्वा समूलम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy