SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्तत्त्वचिन्तामा कार्यतया तत्त्वज्ञानेन तन्निवृत्तौ स्थित्ययोगादित्याशयेनाह-आत्माऽविघेति ॥ ७३॥ आत्माऽविद्याविवर्तोऽयं प्रमातृत्वादिविभ्रमः । तत्राद्योऽयमहङ्काराध्यासः प्रत्यक्चिदात्मनि ॥७४ ॥ ननु प्रमातृत्वादेरात्मधर्मत्वेन प्रतीयमानत्वात् कथमविद्याकार्यत्वम् १ इत्याशक्याह-आत्माऽविद्येति । अतात्त्विकोऽन्यथाभावो विवर्तः। तथा च निर्धर्मकस्यात्मन: प्रमातृत्वादेर विद्याविवर्त्तत्वेन न तयोधर्मधर्मिभाव:तत्प्रतीतेओन्तिमात्रशरीरतया न तेन निधर्मकत्वक्षतिरिति भावः । प्रमातृत्वाद्यध्यासस्य सर्वानर्थबोजत्वप्रदर्शनाय तद्धेतुभूताहङ्काराध्यासमाह-तत्रेति । तत्र प्रमातृत्वाद्यध्यासेषु मध्ये प्रत्यचिदात्मनि मूलाविद्याधिष्ठानत्वेन तदुपहितचैतन्ये आद्योऽयं सर्वानर्थहेतुत्वेन प्रसिद्धः सकलकार्याध्यासापेक्षया प्रथमोऽहङ्कारोऽहमिति शब्दोऽहमिति प्रत्ययश्च तस्याध्यासोऽतस्मिंस्तबुद्धिरूप इत्यर्थः ॥ ७४॥ ततः प्राणेन्द्रियादीनां स ततः संसृतिढू ढा। अनादिवासनाजालैर्वृतो जीवोऽत्र सज्जते ॥ ७५॥ तत इति । ततोऽहङ्काराध्यासानन्तरमहङ्कारोपहितचैतन्ये प्राणा दीनां स चाध्यासः। नह्यहङ्कारप्राणेन्द्रियादीन्यात्मत्वेनानुपादाय प्रमातृत्वादिव्यवहारः केवलचैतन्ये सम्भवति । ततः प्रमातृत्वाद्यध्यासात संसृति: जननमरणप्रवाहलक्षणा दृढा तत्त्वज्ञानमन्तरेण दुरुच्छेद्या। संसृतिदायहेतुमाह-अनादीति। अध्यासस्यानादितया तन्मूलवासनानामप्यनादित्वम् । जालशब्दः समूहवचनो मत्स्यादिबन्धनसाधनजालवचनश्च । वासनानामानन्त्यात्तदावृतो जीवोऽत्र संसृता सज्जते मासक्ततया निमग्नो भवतीत्यर्थः ॥ ७५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy