SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ द्वितीयं प्रकरणम् । १०७ पुनरुक्तमेकस्योपसंहाररूपत्वात् । तथा द्विःकृत्वः श्रवणविधिर्भवतु । तस्माच्छ्रोतव्य इति स्थले विधेरुपपन्नत्वमिति शेषः । न काचिदत्रानुपपत्तिरिति भावः ॥ ६॥ तस्माच्छ्रुतिस्मृतिन्यायसंसिद्धः श्रवणे विधिः। निर्दोष इति तत्वैक्यपरिज्ञानफलावधिः ॥७०॥ श्रवणविधिमुपसंहरति-तस्मादिति ॥ ७० ॥ आत्मदर्शनकामेन विरक्तेन मुमुक्षुणा। आत्मा वेदान्तवाक्येभ्यो द्रष्टव्य इति शास्त्रतः ॥७१ श्रोतव्यो गुरुमाश्रित्य मन्तव्योऽध्येय पादरात् । ततो ज्ञानान्महामोहः सकार्यो विनिवर्तते ॥७२॥ "आत्मा वा अरे द्रष्टव्यः श्रोतव्यः' (वृ० ४ । ५। ६) इत्यत्र श्रवणविधिप्रतिपादने फलितमाह-प्रात्मेति द्वाभ्याम् । 'द्रष्टव्यः' इति शास्त्रान्मुक्तिमिच्छता विरक्तेनाधिकारिणा मुक्तिहेतुभूतात्मदर्शनकामेन गुरुमाचार्यमाश्रित्य गुरूपसदनविधिना वेदान्तवाक्येभ्य आत्मा पादरादत्यन्तभक्तिश्रद्धापुरःसरं श्रोतव्यः, आदरान्मन्तव्यः, आदराद् ध्येयो निदिध्यासितव्य इति। आदरादिति स्थलत्रयेऽप्यनुषज्यते। ततः किमित्यत माह-तत इति ॥ ७१-७२ ॥ आत्माऽविद्योद्भवं बन्धं प्रमातृत्वादिविभ्रमम् । आत्मविद्या समुत्पन्ना समूलं बाधतेऽञ्जसा ॥७३॥ ननु प्रमातृत्वादिबन्धस्य सत्यत्वेनानुभूयमानत्वात् कथं तस्याज्ञानमात्रं विरोधिना तत्त्वज्ञानेन विनिवृत्तिः ? इत्याशक्य बन्धस्याज्ञान Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy