________________
प्रत्यक्तत्त्वचिन्तामा ___ ननु तत्र पाण्डित्यादिशब्दैः कथं श्रवणादिविधानमन्यार्थवाचकत्वात्तेषामिति तत्राह-यदीति। आपाततः श्रवणाद्यप्रतीतावपि वाक्यार्थपर्यालोचने वाक्यस्य श्रवणादिविधिपरत्वं निश्चीयते इत्यर्थः ॥ ६ ॥
पाण्डित्यबाल्ययारर्यः सूत्रकारेण वर्णितः। सहकार्यन्तरेत्यत्र मौनस्यापि विधानतः ॥६॥
एतदेव विशदयति-पाण्डित्येति। सूत्रकारेणैव “सहकार्यन्तर. विधिः पक्षण तृतीयं तद्वता विध्यादिवद्' (ब्र० सू०३।४। ४७) इत्यधिकरणे पाण्डित्यशब्दिते श्रवणे बाल्यशब्दितमननस हिते विधि सिद्धवत्कृत्याथ मुनिरिति वाक्यशेषे निदिध्यासनरूपत्वेन मौनस्य विद्यासहकारिणो विधिप्रतिपादनादसाम्प्रदायिकत्वं दुरापास्तमित्यर्थः। तद्वतः श्रवणमननवतः पुंस: पक्षण कृतोपास्तिपुरुषापेक्षया विकल्पेन तृतीयं निदिध्यासनसंज्ञमात्मज्ञानार्थ मुनिशब्दवाच्यं सहकार्यन्तरं विधीयते । श्रवणादाविव मानेऽपि विधिरस्तीति सूत्रार्थः ॥ ६८ ॥ विधौ तव्यस्मृतेर्वाक्यभेदेनान्यत्र तद्विधेः। अवणे द्विविधिर्वाऽस्तु श्रोतव्य इति तद्विधेः ॥ ६८॥
नन्वेवमप्यधीतखाध्यायमध्ये वगतस्य 'श्रोतव्यः' इत्यस्य श्रवणविधेरनुपपत्तिस्तद्वस्थैवेत्याशझ्याह-विधाविति । तव्यप्रत्ययस्य विधावपि स्मरणात् "तद्विजिज्ञासस्व" इत्यादिषु समानप्रकरणेषु श्रुत्यन्तरेध्ववश्यं वाक्यभेदेन विधेरङ्गोकर्त्तव्यतया त्वदपरितोषस्य निरवकाशात् । न चैकस्यामेव शाखायां "श्रोतव्यः" "पाण्डित्यं निर्विद्य” इत्यादि श्रवणविधिद्वयं पुनरुक्तमिति वाच्यम, एकत्र विधायापरत्र विधिमनूद्य विशेषकथनाद् । द्विः श्रवणविधिर्वाऽस्तु। अथवा, यथा मैत्रेयी ब्राह्मणम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com