SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १०५ द्वितीयं प्रकरणम् । यद्यर्हार्थतया तव्यप्रत्ययस्य समन्वयात् । न विधानार्थता तर्हि वचनान्तरता भवेत् ॥६४॥ अथ तत्रापि तवापरितोषश्चेत्तर्हि प्रकारान्तरं शृण्वित्याहयदीति। यदि रजस्वलावतकलापस्य प्रकरणान्वयासम्भवादगत्या वाक्यभेदाश्रयणम् । इह तु तव्यप्रत्ययस्यार्थित्वेनाप्यन्वयसम्भवान्न तद्युक्तमिति तर्हि वचनान्तरेण भवेदित्यर्थः ॥ ६४ ॥ पाण्डित्यं ब्राह्मणस्तस्मानिर्विद्येत्यादिवेदगीः। भवतु प्रवणादीनामविवादाविधायिका ॥६५॥ तच्छ्रुतेर्गीरनारभ्याऽधीतत्वेन न केनचित् । विरुद्ध्यते विधिस्तस्मानिदुष्टः श्रवणादिके॥६६॥ वचनान्तरमाह-पाण्डित्यमिति । "तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्वाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः" (वृ० ३। ५ । १) इति वाक्यं श्रवणादिविधायकमस्तु, तस्यानारभ्या. धोतत्वेनोक्तविरोधाभावात् । तस्माच्छ्रवणादौं विधिनिर्दुष्ट एवेति सिद्धमित्यर्थः। यस्माद् ब्रह्मभाव: परमपुरुषार्थस्तस्माद् ब्रह्मबुभूषुरुपनिषत्तात्पर्यनिर्णयरूपं पाण्डित्यं निःशेषेण सम्पाद्य बालवन्नोरागद्वेषत्वेन युक्तोऽसम्भावनानिराकरणाय युक्तीरनुचिन्तयन्नवस्थातुमिच्छेत् । ततः पाण्डित्यबाल्ये नि:शेषेण सम्पाद्याथ मुनिनिदिध्यासनं कुर्यादिति श्रुत्यर्थः ॥ ६५-६६ ॥ यद्यप्यापाततस्तत्र श्रवणादि न भासते। विचारे क्रियमाणे तु तत्परत्वं हि लभ्यते ॥६॥ १४ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy