SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १०४ प्रत्यकूतत्त्वचिन्तामणैौ I श्रवणे तदङ्गीकारे तु न काचित्क्षतिरित्याह - ब्रह्मेति । फलत्वेन प्रधानं ब्रह्मदर्शनमुद्दिश्य श्रवणादिविधाने तु न कोऽपि दोष इति योजना ॥ ६१ ॥ यज्ञेनेत्यादिवाक्येऽपि ज्ञानार्थं तद्विधिर्मतः । विधिस्तु धारणेऽपूर्वत्वादित्यत्र च तान्त्रिकैः ॥ ६२ ॥ नन्वेवमुपक्रमोपसंहाराभ्यामात्मतत्त्वप्रतिपादनपरे वेदान्तवाक्ये कथमवान्तरवाक्यैः श्रवणादिविधानं कल्प्यते वाक्यभेदप्रसङ्गादित्याशङ्कय वाक्यभेदश्च किमेकदेशिनाऽऽपाद्यते ? किं वा तान्त्रिकेण ? इति विकल्प्याद्यं प्रत्याह – यज्ञेनेति । वेदान्तेऽप्यवान्तरवाक्यभेदेन " विविदिषन्ति यज्ञेन ” (बृ० ४ । ४ । २२) इत्यत्र ज्ञानसाधनत्वेन यज्ञादिविध्यङ्गीकारादित्यर्थः । द्वितीयं प्रत्याह — विधिस्त्विति । प्रेताग्निहोत्रप्रकरणे "अधस्तात्समिधं धारयन्ननुद्रवेद्" इत्यधा धारणं विधायोपरि हि देवेभ्यो धारयतीति पठितम् । तत्र दैविकमुपरिधारणमन्यत्र प्रकरणमध्ये श्रुतमपि विधेयमिति विधिस्तु धारयेऽपूर्वत्वादित्यधिकरणे निर्णीतत्वादित्यर्थः ॥ ६२ ॥ तिस्रो रात्रीतं कुर्यादितिवत्प्रकृतेऽस्तु सः । का हानिस्तव वक्तव्यमिति निद्र् षणं मतम् ॥ ६३ ॥ अथ कथञ्चिदेतदधिकरणं प्रभाकरो नाङ्गीकुर्यान्तं प्रति समाधानान्तरमाह — तिस्र इति । दर्शपूर्णमासप्रकरणे "तिस्रो रात्रीव्रतं चरेत् " इति रजस्वलाया व्रत कलापिविधिमङ्गीकरोत्येव प्रभाकरः । तस्माद्ब्रह्मप्रकरणेऽपि श्रवणं विधीयतां का तव हानिस्तत्र वक्तव्यम् । त्वयेति शेषः । इतीत्यता हेतोर्मन्मतं निर्दूषणम् । “यत्रोभयोः समो दोष: परिहारश्च तत्समः” इति न्यायेनास्मन्मते त्वया दूषयोद्भावनं न कत्तु शक्यमिति भावः ॥ ६३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy