SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १५८ प्रत्यक तत्त्वचिन्तामया पूर्वेति । न विद्यते पूर्व कारणं यस्य तत्, अव्यावृत्तं सजातीयविजातीयभेदशून्यतया कुतश्चिदपि भिन्नं न भवति यत्तत्, अत एवाद्वयं द्वैतशून्यम्, सद्ब्रह्म तदपूर्वाव्यावृत्ताद्वयसत् तस्यावबोधः साक्षात्कारस्तस्यादये प्रादुर्भावे धीस्तात्पर्य्यं येषाम् । तथा च " अध्यारोपापवादाभ्यां निष्प्रपञ्च प्रपञ्च्यते ।" इति न्यायेन कार्यकारणयोरभेदस्तावल्लोकसिद्ध इति कार्यकारणभावमारोप्याऽद्वितीये वस्तुनि सम्भावनासिद्धये श्रुतीनां तथा वर्णनं सङ्गच्छते । न साक्षात्तादृत्रह्मवर्णनं सम्भवति । येन तथा न वर्णयेयुरिति भावः । किञ्च, वादिपरिकल्पितप्रधानपरमाण्वादीनां जडा शास्त्राचार्योपदेश संस्कार हीनतया मन्दा मतिर्येषाम् । यद्वा, जडेषु प्रधानपरमाण्वादिष्वभिनिविष्टा मतियेषाम् । तदभिमतानां निरसने निराकरणे सति निष्प्रत्यूहं गभीरेऽगाधेपरिच्छिन्ने ब्रह्मणि तात्पर्य " यत्परः शब्दः स शब्दार्थः" इति न्यायेन सिद्धप्रतीति शेषः । इत्येवं श्रुतीनां हृदयं ब्रह्मतत्त्वं तस्य विज्ञास्तत्साक्षात्कारवन्तस्तेषामाशयस्तात्पर्य्यमित्ययमेवेत्यर्थः ॥ २६ ॥ 1 यदि द्वैतं सत्यं भवति कथमद्वैतवचसां भवेत्प्रामाण्यं तर्ह्यनधिगतवस्त्वैक्यविषयम् । कथं वाऽतो मोक्षो जनिमृतिमहानर्थनिगडान्मुमुक्षूणां यस्मात्कथमपि लयं नैत्यवितथम् ॥ २७ ॥ ननु किमर्थमा श्रुतीनामद्वैते ब्रह्मण्येव तात्पर्य्यमिति वर्ण्यते ? द्वैत मिथ्यात्वसिद्धये इति चेत्, तन्न; द्वैतस्य सत्यत्वेऽपि श्रुतिवाक्यानां स्वार्थे प्रामाण्योपपत्तेः । न वा मोक्षसिद्धये तथावर्णनम्, द्वैतसत्यत्वेऽपि मोक्षोपपत्तेश्च । किश्व, द्वैतमिथ्यात्ववर्णनं न तावद् ब्रह्मज्ञान निवर्हणीयत्वाय शास्त्रप्रामाण्यात् सत्यस्यापि ज्ञानान्निवृत्तेः । न च संसारियोSसंसारिब्रह्मकत्वार्थमोपाधिकस्य संसारस्य सत्यस्याप्युपाधिनिवृस्या Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy