SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ चतुर्थ प्रकरणम् । १५६ निवृत्तौ जीवस्य ब्रह्मैक्यसम्भवादित्याशक्याह-यदीति। यदि द्वैतं सत्यं स्यात्तह्य द्वैतवचसा "एकमेवाऽद्वितीयम्' (छा०६।२ । १) "तत्त्वमसि' (छा०६।८।७) “अयमात्मा ब्रह्म' ( बृ० २।५।१६) 'ब्रह्मैवेदं विश्वम्” (मु० २।२।११) इत्याद्यद्वैततत्त्वप्रतिपादकवेदान्तवाक्यानां प्रामाण्यमनधिगतं प्रमाणान्तरैर विषयोकृतं यद्वस्तुनोनारोपि तस्य ब्रह्मण ऐक्यमखण्डैकत्वं तद्विषयं तदेकमात्रगोचरं कथं स्यादिति सम्बन्धः । कथं वा द्वैतसत्यत्वे सति अता हैतरूपबन्धाजन्ममृत्युप्रवाहरूपानर्थनिगडाद् दुरुच्छेद्यपाशाद् मुमुक्षूणां मोक्षः स्याद् ? यस्मात्कथमप्यवितथं कालत्रयेऽप्यबाध्यं वस्तु लयं नैवेति न विनश्यतीत्यर्थः । सत्यस्यात्मवदनिवृत्तेः, द्वैतरूपबन्धस्यापि तथात्वात्; ततः कथमपि मोक्षो न स्यादिति भावः । न च सत्यः प्रपञ्ची ज्ञाननिवर्त्य इत्यागमोऽस्ति । प्रत्युत बन्धस्य ज्ञाननिवर्त्यत्वश्रुतार्थापत्त्या मिथ्यात्वप्रसिद्धेः । न च ताय॑ध्यानादिना सत्यस्यापि विषादेर्निवृत्तिष्टेति वाच्यम् , विषादेः सत्यत्वासिद्धेः । ननु सर्वः प्रपञ्चोऽमिथ्येति त्वन्मते विषस्य सत्यत्वा. सिद्धिरस्तु नाम । तथापि विषय मिथ्यात्वं न ता_ध्याननिव य॑त्वप्रयुक्तं त्वयेष्यते । किन्तु प्रपञ्चमिथ्यात्वसाधकप्रमाणान्तरप्रयुक्तमिष्यते। तथा च तार्यध्याननिवर्त्यत्वं विषस्येव ब्रह्मज्ञाननिवर्त्यत्वं संसारस्य मिथ्यात्वे प्रयोजकं न स्यादिति चेत्, न; ध्यानस्याप्रमात्वेनाsदृष्टान्तत्वात् । तथाहि-ब्रह्मज्ञानपरीक्षितप्रमाणमूलकं प्रमारूपमेव संसारनिवर्त्तकम्, “वेदान्तविज्ञानसुनिश्चितार्थाः'(क० ३।२।६) इत्यादिश्रुतेः; ब्रह्मविद्योपक्रमाम्नातगुरुशिष्यनिबन्धवदुपाख्यानगतयावत्संशयनिवृत्तिप्रश्नोपदेशतत्तदुपपत्त्युपन्यास लिङ्गाच्च; तत्प्रमात्वस्थिरीकरणापेक्षितासम्भावनादिनिवृत्त्यर्थप्राप्तश्रवणमननध्यानानुवादलिङ्गाच्च । तार्क्ष्यध्यानस्य तु कल्पिताकल्पितसाधारणययोपदिष्टार्थ विषयस्य विषनिवतकत्वे प्रमात्वं नापेक्षितमिति दृष्टान्ताऽसम्प्रतिपत्तिरिति । ननु "सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्या निवर्त्तते" इति स्मृतेः सेतुदर्शनं प्रमारूपमेव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy