SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १६० प्रत्यक्तत्त्वचिन्तामणैा सत्यस्याऽघस्य निवर्तकं दृष्टम्, तथात्राप्यस्तु, का क्षतिः ? इति चेद्, न; सेतुदर्शनञ्च चोदितक्रियात्मनैवैनानिवर्हकम् , न प्रमारूपम् , पश्यता. मपि सेतुं म्लेच्छानां श्रद्धाविरहिणां वाऽधानुपघातात् । आत्मप्रमा तु दृष्टद्वारेण बन्धनिवर्तिनी, न विधिद्वारा, तद्विधेः समन्वयसूत्रे भाष्य. कृद्भिनिराकृतत्वादित्यलं विस्तरेण ॥ २७ ॥ जगन्मिथ्यात्वे तु अतिशतशिरोगीरविकलं . भजेत्प्रामाण्यञ्च व्यवहृतिरपीयं हि घटते। मृषाबन बोधी विदलयति मोक्षोऽपि सुलभः परब्रह्माद्वैतं व्रजति न च कापं श्रुतिमतम् ॥२८॥ प्रपञ्चमिथ्यात्वे तु सर्वमनवद्यमित्याह-जगन्मिथ्यात्वे इति। “तरति शोकमात्मविद्" ( छा०७ । १।३) "ब्रह्मविदाप्नोति परम्" (ले० २।१)"ब्रह्म वेद ब्रह्मैव भवति" (मु० २।६)इत्यादिश्रुतिशतशिरोगीरविकलं यथा स्यात्तथा प्रामाण्यं भजेत् । अन्यथा शोकोपलक्षितसंसारस्यात्मज्ञानेन तरणोक्तिब्रह्मज्ञानमात्रेण जीवभावनिवृत्तिपूर्वकब्रह्मभावप्राप्तिकथनञ्च बाध्येत । तथा सति कथं श्रुतिशिरोगिरां प्रामाण्यं स्यादित्यर्थः । सर्वेषां वेदान्तानां समन्वयोऽद्वितीये ब्रह्मणि । शास्त्रस्य प्रथमाध्यायार्थः श्रुतिशतेत्यादिविशेषणेन दर्शितः । शतशब्द अानन्त्यपरः, “विश्वं शतं सहस्रश्च सर्वमक्षय्यवाचकम्'' इति महाभारतवचनात् । “ब्राह्मणशतं भाज्यताम्" इत्यत्र भोजनस्येव शिरसां संख्योपसर्जनसंख्ययेनान्वयः । नन्वस्तु जगन्मिथ्यात्वे तु श्रुतीनां प्रामाण्यम् , व्यवहारस्तु न सेत्स्यत्ति; भ्रमजनितस्य व्यवहारसाधकत्वादर्शनात् । नहि मृगतृष्णाम्भः पिपासोपशमकं दृष्टमित्याशङक्याह-व्यवहृतिरपीति। किं भ्रमजनितस्य भ्रमकालेऽपि न व्यवहारसाधकत्वम् १ बाधकाल्ने वा ? अन्त्ये, इष्टापत्तिः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy