SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ चतुर्थ प्रकरणम् । १५७ ब्रह्मणः पराकृत्येोपादानत्वं निरस्यति — समपदमिति । विचित्ररचनात्मकत्वेन विषमकार्य्यं प्रति समं निर्विषमं यत्पदं तत्कथमुपादानं स्यात् ? 'वैचित्र्यञ्च समस्य न " इति न्यायेन विचित्रकार्य प्रति विचित्रमेव कारणं युक्तम्, न तु सममित्यर्थः । जगन्निर्माणं चेश्वराच्छ्रयते "यता वा" इत्यादिश्रुतेः । अता ब्रह्मण्यव्यस्त मार्या समादाय श्रोतवचनैर्ब्रह्माद्वयसुखनिधेः परिपूर्णाद्वैतानन्दसमुद्रस्याऽनृतत्वेन जडत्वेन च प्रसिद्धं विश्वं प्रति हेतुत्वमभिन्ननिमित्तोपादानत्वमुदितमिति योजना | न हि जडानृतदुःखानेकविधप्रपञ्चं प्रति सत्यज्ञानानन्तानन्दासङ्गोदासीनस्य ब्रह्मणो मायामन्तरेण कथञ्चदपि कारणत्वं सङ्गच्छते इति सृष्टिश्रुतीनामपि स्वार्थे तात्पर्याभावादिति भावः ।। २५ । न तत्र प्रामाण्यं निगम शिरसां ब्रह्ममनसामपूर्वाव्यावृत्ताद्वय सदवबाधादयधियाम् । प्रधानाण्वादीनां जडमतिमतानां निरसने गभीरे तात्पर्य्यं श्रुतिहृदयविज्ञाशय इति ॥ २६ ॥ ननु " सदेव सौम्यंदमग्र आसीत् " ( छा० ६ । २ । १ ) " तस्माद्वा एतस्मादात्मन: आकाशः सम्भूतः " ( तै० १ । २ । १ ) “यता वा” ( तै० ३ । १ ) इत्यादि सृष्टिश्रुतीनां ब्रह्मजगताः कार्य्यकारणभावप्रतिपादनपराणां स्वार्थे तात्पर्य किन्न स्यात् ? इत्याशङक्याह-नेति । तत्र कार्यकारणभावे निगमशिरस्रां वेदान्तानां न प्रामाण्यम्, तत्र हेतुगर्भ विशेषणं - ब्रह्ममनसामिति । ब्रह्मण्यद्वितीये मनस्तात्पर्य येषाम् । तथा च समन्वयविरोधान्न तत्र कस्यापि श्रुतिवाक्यस्य तात्पर्य्यमित्यर्थः । नतु किमर्थं तर्हि कार्यकारणभावः श्रुत्योच्यते ? तस्य तात्पर्य्यबहिर्भूततया वैयर्थ्यादिति नेत्याह Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy