________________
प्रत्यक्तत्त्वचिन्तामा प्रवृत्तिदृष्टेत्यर्थः। फलितमाह-तत इति। ब्रह्म स्वमायाशक्तयैव सकलमिदं जगदारचयतीति योजना। तथा च श्रुत्यादेर्जगतो ब्रह्मकार्यत्वप्रतिपादने तात्पर्य्याभावान्मायिकत्वापरपर्यायानिर्वाच्यत्वरूपमिथ्यात्वं प्रपञ्चस्येति भावः ॥ २४ ॥
असङ्गादासीनं सुखघनमनन्तं समपदं
विना मायां विश्वं प्रति कथमिदं हेतुरुचितम् । अतोऽध्यस्तां मायामनृतजडहेतुत्वमुदितं .
समादाय ब्रह्माद्वयसुखनिधेः श्रोतवचनैः ॥२५॥
"तदेतद् ब्रह्माऽपूर्वमनपरम्" (बृ० २ । ५ । १६) इत्यादिश्रुतिसिद्धं कार्यकारणभावशून्य ब्रह्म जगद्धेतुमायाधिष्ठानत्वमन्तरेण न जगत्कारणमित्याह-असङ्गेति । अनन्तमपरिच्छिन्नं ब्रह्म मायामत्यन्तासम्भावितप्रदर्शिनीमनेकशक्तिमविद्या विना कथं विश्वमाकाशादिप्रपञ्चं प्रति हेतुरुपादानं निमित्तं वा भवितुमुचितम् ? इत्यन्वयः । ननु कुलालादिर्घटादिकार्य रचयन्नाऽविद्यामपेक्षते, एवमीश्वरोऽपि जगनिर्मास्यति विनैव मायामिति तत्राह-प्रसङ्गेति । सङ्गः कार्यकारणादिसम्बन्धस्तद्रहितोऽसङ्गः, "प्रसङ्गो ह्ययं पुरुषः" (बृ. ४ । ३ । १४ ) इत्यादिश्रुतेः। ननु "तत्तेजोऽसृजत' (छा० ६ । २। ३) इत्यादिश्रुतेरीश्वरस्य कर्तृत्वप्रतीतेरसङ्गत्वमसिद्धमिति नेत्याहउदासीनमिति । अतरूपमित्यर्थः। ना दासीनस्य कर्तृत्व तत्प्रयुक्तसङ्गो वा, अन्यथोदासीनमेव न स्यादिति भावः । चेतनो हि प्रयोजनमुद्दिश्य कार्य करोति । प्रयोजनं चेश्वरस्य किं दुःखाभावः ? सुखं वा १ नाद्यः, तस्य स्वतः सिद्धत्वात्। न द्वितीय इत्याह-सुखघनमिति। ततश्चोभयविधप्रयोजनशून्यत्वादुदासीनत्वाञ्च तेज:प्रभृतिकर्तृत्वमीश्वरस्य न युक्तमित्यर्थः । एवं निमित्तकारणत्वं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com