________________
चतुर्थ प्रकरणम् ।
१५५ स्फुरणप्रसत्यभावेन तत्रावरणकृत्याभावादिति बोध्यम् । एवं प्रपञ्चस्याविद्यकत्वं सम्भावयितुं दृष्टान्तमाह-यथा स्वाप्नमिति । दृशि द्रष्टरि कल्पितं स्वाप्नं विश्वं रथादिरूपं यथाऽऽविद्यकतयाऽनिर्वाच्यम् , तथाऽयमित्यर्थः। तत्त्वज्ञानमात्रेण निवृत्तिश्रवणादपि तस्यानिर्वाच्यत्वमित्याह-अवयुद्ध इति। अधिष्ठाने प्रत्यगभिन्ने ब्रह्मणि साक्षात्कृते जगन्नासीत्, नास्ति, न भविष्यतीति त्रैकालिकबाधविषयता भजते इत्यर्थः ॥ २३ ॥
यतो वेति श्रौतं जगदुदयरक्षाप्रलयकृ
नचान्यच्चिद्धातोरिति हृदयमाश्रित्य वचनम् । जडानां स्वातन्त्र्यं क्वचिदपि न दूष्टं तत इदं
स्वमायाशक्त्यै वारचयति जगद् ब्रह्म सकलम्॥२४॥ ननु “यतो वा इमानि भूतानि जायन्ते' ( तै० ३ । १ ) “यतः सर्वाणि भूतानि" (म० भा० अनु० अ०२५४।११) “जन्माद्यस्य यतः" (ब्र० सू० १ । १ । २) इत्यादिश्रुतिस्मृतिन्यायकदम्बैब्रह्मणः सकाशाजगता जन्मादिप्रतिपादनात् कथं तस्याऽनृतत्वम् ? इत्याशङ्क्याहयतो वेति। “यतो वा इमानि भूतानि जायन्ते' इत्यादिश्रौतं वचनं चिद्धातोश्चिन्मात्राद् ब्रह्मणाऽन्यः कश्चिजगज्जन्मादिकृन्नास्तीति तात्प
र्यमाश्रित्यैव भवति। “यतो वा' इति श्रुती 'इमानि' इति भूतविशेषणम्। तेन नामरूपाभ्यां व्याकृतं मनसाऽप्यचिन्त्यरचनादीत्येवंभूतधर्माः समयन्ते । तैश्च धम्मैः प्रधानादेरचेतनात् परिच्छिन्नशक्तेश्च हिरण्यगर्भादेर्जगता जन्मादि न सम्भवतीति। 'यतो वा' इत्यादिश्रुतिस्तन्मूलकस्मृतिन्यायकदम्बश्च जडानां प्रधानादीनां स्वातन्त्र्यं क्वचिदपि कुत्रापि देशे काले वा न दृष्टं श्रुतिस्मृतियुक्तिविचारेणैवानुभवपथमवतरतीति तेषां जगत्कारणत्वनिषेध पर एव । नहि चेतनानधिष्ठितरथादेः स्वतः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com