SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम् । १३ पादयितुं घाष्ट्र्यात् स्वप्रागल्भ्यात् नेष्टं समर्थो न भवतीत्यर्थः । अपि तु भयादेव तत्कङ्कय्र्यमनुसृत्यैव कश्विदेव स्ववाचां सार्थक्याय वक्तुमीष्टे । ननु “सर्वे वेदा यत्पदमामनन्ति " (क० १ । १ । १५) इत्यादिश्रुत्या वेदैस्तत्प्रतिपादनं क्रियत एव तद्द्वारा ब्रह्मादीनामपि तत्प्रतिपादनसामध्येमच्या हतमस्त्येव कथं न तत्र ब्रह्मणः सामर्थ्यमित्याशङ्क्याह-- -यं वेदान्ता अपीति । वेदानामन्ता अवसानभागास्तच्छिभागस्थानापन्नवेदान्ता उपनिषदोऽपि य वासुदेवमभिधावृत्त्या प्रतिपादयितुं सुचकिता अत्यन्तभीता अतद्व्यावृत्त्या कथविलक्षण्या प्राहुः प्रतिपादयन्ति, पर्यवस्यन्तीत्यर्थः । तद्द्वारा ज्ञानवतां ब्रह्मादीनां साक्षातत्प्रतिपादने कथं सामर्थ्य स्यादिति भावः । ननु तर्हि स्तोमीति कथं प्रतिज्ञातमित्यत आह-प्रथेति 1 यद्यपि ब्रह्माद्यनवगाह्यमाहात्यस्य भगवत: स्तुती माशी वराकोऽत्यन्तानधिकारी तथाप्यहं भक्तयावेशाद् भक्तिर्भजनं भगवति तत्परत्वं तदावेशान्निमित्तादेव न तु लाभपूजाख्यात्यादिनिमित्तादित्यर्थः । एतस्य स्वत एवापरोक्ष्यभूतस्य प्रत्यगभिन्नस्य श्रीविष्णोः कीर्ते तत्स्वरूपनिरूपणलक्षणायां स्तुता व्यवसितमतिः व्यवसिता व्यवसायं निश्चयं प्राप्ता मतिर्यस्य सः । ardastsयेपामधिकारियां किं फलमिति तत्राह -- तीर्थ कीर्तेरिति । तीर्घरूपा श्रोतृवादिपावनकर्त्री कीर्तिर्यस्य तस्य ! तथा च परमपुरुषार्थसाधनसम्पत्सिद्धये भगवत्कीर्तिरवादर्तव्येति भावः ॥ ५ ॥ शुद्ध वस्त्वद्वयमविदितं वधुमिष्टं स्वधाम स्वान्तस्थं तद्विमलममृतं प्रत्यगानन्दरूपम् । बुद्धयारूढं फलति मुकलाज्ञानबाधादखण्डं श्रीकृष्णाख्यं जयति सततं कीर्तिरेवास्ति विष्णोः ॥६॥ सा कीर्तिः किस्वरूपा स्यादित्याकाङ्क्षायां कीर्तिस्वरूपकथनव्याजेन सकलवेदान्तशास्त्रप्रमेयभूतं तत्त्वंपदार्थत्वं वाक्यार्थ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy