SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्तत्त्वचिन्तामणौ नादिभवसञ्चितानेकदुरितप्रतिबन्धेन कथं तत्स्वरूपं सुवेद्यं स्यादित्यत आह-अघहरमिति। तथा च भगवद्विमुखानां तथात्वेऽपि तं भजतां स एव सकलाचं हरतीत्यर्थः। न केवलमघनाशकत्वेनैव तद्भजनमावश्यकमपि तु विवेकज्ञानाद्यैश्वर्यप्रदत्वेनापीत्याह-श्रीपतिमिति । श्रियाः सकलसुकृतफलभूतापाङ्गनिरीक्षणायाः सकलासाधारणगुणगणालङ्कताया रमाया अनन्यविभूतेरधिपतित्वादेव स्वभक्तानामनायासेनैव सर्वदैव सम्पत्प्राप्तिहेतुभूतमित्यर्थः । तथा च सकलदुरितक्षयहेतुभूतसकलसुकृततत्फलभूतदैवसम्पत्प्राप्तिफलकीपतिभजनमेवादरेण नित्यं मुमुक्षुभिः कर्तव्यत्वेनाश्रयणीयमिति भावः ॥ ४ ॥ कः स्तोतुं श्रीपतिमतिगुणं मादशोद्धा क्षमः स्याद्वाचा वाचस्पतिरपि भयाद्वक्तुमीष्टे न धाष्टोत् । यं वेदान्ता अपि सुचकिताः प्राहुरेतस्य कीर्ती भक्तयावेशाद् व्यवसितमतिस्तीर्थकीर्तेरयाहम् ॥५॥ स्तैौमीत्युक्तः प्राप्तमौद्धत्य वारयन्नत्यगाधगुणमाहात्म्यभगवत्स्तुती स्वस्यानधिकारञ्च प्रदर्शयन् भगवद्भक्तमावेशेन तत्र प्रवृत्ति दर्शयति--- क इति । मादृशो जनः कः श्रीपतिमतिगुणमतिशयेन गुणाः सहस्रमुखादिभिरपि प्रत्यहं तद्वर्णनपरैः सर्वज्ञकल्पैरपीयन्त इति परिच्छेत्तुमशक्या यस्य तमद्धा साक्षाद्वाचा परिच्छिन्नेन वागिन्द्रियेण स्तोतु स्तुति कर्तुं क्षमः समर्थः स्यादित्यन्वयः। महतां मनसाप्यनवगाह्यमाहात्म्य भगवन्तं वाचा स्तोतुं मादृशाऽत्यन्तपरिच्छिन्नकरण: कथमपि समर्थो न भवतीत्यर्थः। भगवतोऽनवगाह्यमाहात्म्यं विशदयति-वाचस्पतिरपीति। वाचामधिष्ठात्री देवता श्रीसरस्वती तस्याः पतिनियन्तृत्वेन प्रसिद्धो भगवाँश्चतुर्मुखा यं भगवन्तं व वचनेन प्रति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy