SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम् । ११ ; सन्तस्तत्प्रसाद यन्ता भगवानेवाखण्डैश्वर्य्यनिधिरित्यर्थः, "एको वशी" ( कठ ० ५ । १२) "एष सर्वस्येशानः” (बृ० ५ : ६ । १ ) इत्यादिश्रुतेः । " भीष्मास्माद्वातः पवते भीष्मोदेति सूर्यः भोष्मास्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम:' ( तै० २१६ ) इति श्रुतेश्च । ननु तर्हि राजादिवत्सर्वदण्डानुग्रहकत्त्वं तस्य स्वप्रयोजनकं स्यात्, तथा च स्वतन्त्रत्वनित्यतृप्तत्वयोः क्षतिरित्याशङ्कयाह - सुहृदिति । प्रत्युपकाराकाङ्क्षां विनैव सर्वोपकर्त्ता, तस्य निवृत्या स्वप्रयोजनाका क्षाविरहात् स्वतन्त्रत्वसिद्धिरित्यर्थः तथापि स च सर्वनियामकत्वेन राजादिवत्सर्वनियम्यवर्गाद्भिन्न एव स्यात्, तथा च कथं तस्य प्रत्यगभिन्नवन्तुनिष्ठुवेदान्तप्रतिपाद्यत्वमित्यत आह-- आत्मेति । सर्वभूतानां स एव प्रत्यगात्मत्यर्थः । ननु सर्वभूतानां स एवात्मेति कुतो विनिश्चितमिति तत्राह--यं वेदान्तैरिति । तर्हि वेदान्तप्रमाणपरिच्छेद्यतया भास्यत्वे नानात्मत्वापत्तिरित्याशङक्याह प्रविषयमिति । लब्धतत्त्वज्ञाना यसविषयं विदुरित्यन्वयः । वेदान्तजन्यवृत्तिव्याव्यतया तस्य फलव्याप्यत्वानङ्गोकारान्न तथात्वमित्यर्थः । "यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम्” ( के० २ । ३ ) इति श्रुतेः । कथं तर्हि वेदान्तास्तं प्रतिपादयन्तीति तत्राह - सर्वबाधावधित्वादिति । सर्वस्य कार्यकारणरूपस्य प्रपञ्चस्य बाधावधित्वेनेत्यर्थः । सर्वेषां बाधानामवधित्वात्परम्पराविश्रान्तिस्थानत्वादिति वार्थः । तथा चातव्यावृत्त्या सर्वदृश्य निषेधे तदवधिभूततत्त्वं नेति नेतीत्यादिवेदान्तैः प्रतिपाद्यते इति भावः । नन्वेतादृशं तत्त्वं दुर्ज्ञेयं कथं प्रतिभारूढं स्यादिति तत्राहसकलहृदिगं सन्तमिति । प्रत्यगात्मतयैव प्रतिपत्तव्यं न तु भेदेनेत्यर्थः । नानाभेदप्रतिभासात्कथं भेदप्रतिपत्तिरित्याशङ्क्याह- येन विश्वं समस्तं व्याप्तमिति : सर्वांनुस्यूततत्त्वापरिज्ञानविलसितेाऽय ं भेदप्रतिभासस्तत्त्वज्ञानेन तस्य बाधाद् भेदप्रतिपत्तिः स्यादेवेत्यर्थः । नन्व Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy