________________
१०
प्रत्यक्तत्वचिन्तामणौ
तिर्येषान्ते श्रुतिमतयो व्यासवशिष्ठप्रभृतयस्तेषां मतं सर्ववेदतात्पर्यविषयत्वेनाभिमतम् । यद्वा, श्रुतिमतिभ्यां श्रवणमननाभ्यां मतं विनि. चितं वैकुण्ठनाथं निजभक्तानुप्रहार्थं प्रादुर्भावितस्य वैकुण्ठलोकस्य नाथ: साक्षान्निजभक्तेभ्यो दातृत्वेन स्वामी तं नौमि प्राह्वीभावेनाश्र - यामीत्यर्थः ॥ ३ ॥
यो ब्रह्माण सृजति जगतां नाथ प्रात्मा सुहृद्यो यं वेदान्तैर्विदुरविषयं सर्वबाधावधित्वात् । सन्तः सन्तं सकलहृदिगं येन विश्वं समस्तं व्याप्तं तं श्रीपतिमघहरं स्ताम्यहं वासुदेवम् ॥४॥
इत्थं मङ्गलं शास्त्रार्थसंग्रहश्च विधायेदानीं विस्तरेण शास्त्रार्थं निरूपयिष्यन्सर्ववेदान्तप्रतिपाद्य सर्वनिषेधावधिभूतं प्रत्यगभिन्नं भगवन्तं वासुदेवमेतद्ग्रन्थप्रतिपाद्यत्वेन प्रदर्शयश्चिकीर्षितं प्रतिजानीते - य इति । अहं तं वासुदेवं स्वामीत्यन्वयः । तत्स्वरूपनिरूपणपरं ग्रन्थं करोमीत्यर्थः । चित्तस्य श्रीवासुदेवानुसन्धानरूपभक्तिविच्छेदपरिहाराय तत्प्रेमप्रेरितः संस्तदनुसंधानरूपग्रन्थकरणे प्रवृत्तोऽस्मीत्यभिप्रायः । ननु जगत्स्रष्टृत्वेन प्रसिद्धं चतुर्मुखं विहाय किमिति वासुदेवस्तवने प्रवृत्तिरिति तत्राह — यो ब्रह्माणमिति । ब्रह्मणोऽपि जनकत्वेन स्वतन्त्रतया प्रसिद्धो भगवान्वासुदेव एव सर्वस्रष्टेत्यर्थः । "यो ब्रह्माणं विदधाति पूर्व यो वै वेदाँश्च प्रहिणोति तस्मै f तं ह देवमात्मबुद्धिप्रकाशं मुमुत्तुर्वै शरणमहं प्रपद्ये " ( श्वे० ६ । १८ ) इति श्रुतेः । तथापि जगत्स्वामित्वेन प्रसिद्धानिन्द्रादीन्विहाय कथं वासुदेव एव स्तूयते इत्यत आह-- जगतां नाथ इति । तथा च भगवता वासुदेवस्यैव निरुपचरितलोकस्वामित्वं नेन्द्रादीनाम् । यतस्तेषां खण्डमण्डलपतीनामिव परतन्त्रतया परिच्छिन्नैश्वर्यवत्त्वम् । तन्नि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com