SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम् । ब्रह्मेशनामरपतिमुखैर्यः सुरैर्वन्दिताघ्रि स्तं प्रत्यञ्च श्रुतिमतिमतं नौमि वैकुण्ठनायम् ॥३॥ एवं खरूपतटस्थलक्षणाभ्यां भगवन्तमनुसंधायेदानी ग्रन्थकर्ता प्रार्थनीयशब्दलालित्यादिगुणाधिष्ठातृदेव्याधारत्वेन ब्रह्मादिवन्दनीयत्वेन प्रत्यगात्मत्वेन चानुस दधानो भगवन्तं नमस्यति-वाग्देवीति । वागधिष्ठात्री देवी द्योतनात्मिका शक्तिः सरस्वती यन्मुखसरसिजे यस्य शब्दब्रह्मयानेबदनारविन्द स्थिता सदाऽव्यभिचरितरूपेण वरीवति । यत्पदाब्जे यस्य सर्वसौन्दर्यसारसर्वस्वभूतस्य भगवत: पदारविन्दे श्रीः सर्वशृङ्गारादिरसाधिष्ठात्री देवता रमा स्वलावण्यविभूत्यादेिगर्व विहाय कर्मकरीब चाञ्चल्यादिदोषविनिमुक्ताऽव्यभिचरितरूपेण स्थिता स्थायीभाव प्राप्ता । हादिन्या आहादः पञ्चक्लेशविनिर्मुक्तं यत्सखं तदानशक्तिः शरणागतदोलजनोद्धरणादिशोलरूपा ह्रादिनी तया संविदा अनवच्छिन्नज्ञानरूपया अन्तहदि कमले भक्तानुग्रहव्यग्रे आलिङ्गित आश्लिष्टोऽनवच्छिन्नानन्दकन्दो भगवान् अत एव चतुराननपञ्चाननसहस्रनयनादिदेवैर्वन्दितावडघ्रा चरणसरोजे यस्य सः। अनेन निरुप. चरितब्रह्माद्यधीशोपास्यत्वेन परमेश्वरत्वमत्रैव पर्यवसन्नमिति ध्वनितम् । तं प्रत्यञ्चं चरमवृत्त्यारूढः सन् भक्तानां प्रतिकूलभूताविद्यात कार्यबन्धमञ्चति हिनस्तीति प्रत्यङ तम् , "तेपामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदोपेन भास्वता ।।" (गी० १०११) इति भगवचनात् ! यद्वा, जडानृतदुःखात्मभूतेभ्यो देहादिभ्यः प्रातिलोम्येन सच्चिदानन्दस्वरूपेणाञ्चति प्रकाशते इति प्रत्यङ तम, "क्षेत्रज्ञञ्चापि मां विद्धि","अहमात्मा गुडाकेश ! सर्वभूताशयस्थितः'' इत्यादिभगवद्वचनात् । तं प्रत्यगात्मभूत श्रुतिमतिमतं श्रुतिवाक्यजन्या मति: श्रुतिमतिस्तया मत साक्षात्कृतम् । यद्वा, श्रुतिजन्या म Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy