SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ८ प्रत्यकूतत्वचिन्तामयौ तिरिति । यस्य पादाम्भोजयोः स्मृतिः स्मरणं शान्तिदान्त्यादिसकलसाधनकारणं सती अभयदा अभयशब्दवाच्यं सर्वानर्थनिवृत्त्युपलक्षितनिरतिशयानन्दस्वरूपाविर्भावलक्षणं मोक्षं ददातीति तथा तं कृष्णं सदानन्दघनं श्रीकान्तं लक्ष्मीपतिं स्वपदरतिदं स्वात्मत्वेनाभिमतं यत्पदं “तद्विष्णेाः १ परमं पदम् ” ( क० १ । ३ । ६) इत्यादिश्रुतेः । तद्विषया रतिस्तत्परता तां ददाति स्वभक्तेभ्य इति तमीशं मायातत्कार्यविश्वाधिष्ठानत्वेन सर्वस्येशितारं परमेश्वरपदाभिधेयं संश्रये - सम्यगसम्भावनादिनिरासेन प्रपद्ये, शरणं व्रजामीत्यर्थः । तस्य सर्वाधिष्ठानत्वेनेश्वरत्वमेव दर्शयति — यद्धाम्नेति । यत्र यस्मिन्नधिष्ठानभूतमायोपहितचैतन्ये सत्ये ऽविद्यमानमायातत्कार्ययो: सत्ताप्रदत्वेन कालत्रयेऽप्यबाध्यस्वरूपे इदं दृश्यजातं सकलं स्थूलसूक्ष्ममूर्त्तामूर्त्तरूपं हिरण्यगर्भादिचतुर्विधभूतग्रामान्तं जगत्सर्गकाले रजौ सर्प इव, मरुमयूखेषु सलिलमिव, व्योम्नि गन्धर्वनगर मिवात्यन्तमसम्भाव्यं कल्पितमारोपितम् ; स्थितिकाले यद्धाम्ना यत्स्वरूपचैतन्य प्रकाशेन सकलं स्फुरति - नानाव्यवहारास्पदत्वेन विचित्रा - कारं विभाति; लये प्रलयकाले यं सर्वविनाशावधिभूतं सर्वाः शक्तयो यस्या मायायाः सा सर्वशक्तिस्तस्याः प्रतिष्ठा परिसमाप्तिर्यस्मिन्नवधिभूते तं तथाभूतं तत्त्वं विश्वमध्यस्तं संप्रविशति तिरोभावेन यद्भावमेवाप्नोतीत्यर्थः । अनेनाभिन्ननिमित्तोपादानभावेन जगज्जन्मादिकारणत्वं ब्रह्मणस्तटस्थलक्षणं प्रदर्शितमिति ॥ २ ॥ . वाग्देवी यन्मुखसरसिजे यत्पदाब्जे स्थिता श्रीह्रदिन्यान्तर्हृदि जलरुहे संविदालिङ्गिता यः । १ - राहोः शिर इतिवत् पष्ठी । २ - श्रतस्मिंस्तद्बुद्धिरध्यासः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy