SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम् । मनुते" ( कं० १ । ५ ) इत्यादिश्रुतेरित्यर्थः । अत इदं फलितम्सत्यज्ञानानन्तानन्दैकरसं मुकुन्दपदवाच्यं ब्रह्म तत्पदलक्ष्यम्, स्वमिति पदस्य निर्विशेषप्रत्यक्चैतन्यमात्रनिष्ठतया त्वंपदलक्ष्यपरत्वम् । तथा च ब्रह्मात्मपदयोः सामानाधिकरण्यादैक्यवाक्यार्थ सिद्धिरित्युक्तम् तदेवं वाक्यार्थभूतं स्वं स्वात्मानं श्रीमुकुन्दं कलये । भक्त्या इत्यत्राप्यनुषज्यते । परप्रेमास्पदत्वेनात्यन्तानुरागेणानुसन्दधे इति सम्बन्धः । "भक्तानां भक्तिसिद्धार्थं सच्चिदानन्दविग्रहम् । आविर्भावयतीशानो यस्तमेवं हरिं भजे ॥" एवं सगुणनिर्गुणस्वरूप एक एव भगवान्मुकुन्दां ध्येयो ज्ञेयश्चेति सिद्धम् । तेन वाक्यार्थभूतमखण्डचैतन्यात्मकं ब्रह्माज्ञातत्वेन शास्त्रस्य विषयः । श्रीमन्मुकुन्दकृपाकटाक्षनिरीक्षणेन ज्ञातं सत्तदेव प्रयोजनमिति सूचितम् । तज्ज्ञातुकामो भगवद्भक्तिपरिशोधितान्त:करणो भगवत्प्रसादलब्धविवेकवैराग्यादिसाधनचतुष्टयसम्पन्नोऽधि कारी । सत्यज्ञानानन्तानन्दैकरसः श्रीमुकुन्द एवानेन ग्रन्थेन प्रतिपाद्यस्तेन प्रतिपाद्यप्रतिपादकभाव: सम्बन्धश्च ध्वनित इति सर्वमनवद्यमिति ॥ १ ॥ यत्पादाब्जस्मृतिरभयदा शान्तिदान्त्यादिहेतुर्यद्धाम्नेदं स्फुरति सकलं कल्पितं यत्र सत्ये । यं विश्वं सम्प्रविशति लये सर्वशक्तिप्रतिष्ठं तं श्रीकान्तं स्वपदरतिदं संश्रये कृष्णमीशम् ॥२॥ एवं सगुण निर्गुणभगवदनुसन्धानमुखेन ब्रह्मणः स्वरूपलक्षणमभिधायेदानीं स्मर्तॄणामभयप्रदातृत्वादिगुणैरलङ्कृतं भगवन्तमनुसन्दधानो जगज्जन्मादिहेतुत्वं ब्रह्मणस्तटस्थल क्षणमपि दर्शयति — यत्पादाब्जस्मृ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy