SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रत्यकूतत्त्वचिन्तामणैौ "शरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः " ( छा० ८ । १२ । १) इति श्रुतेः । नाप्यन्यगतसुखादिसाधनं ब्रह्म, अन्येषां दृष्टादृष्टसुखदुःखप्राप्तिपरिहारयोलौकिकवैदिक साधनेभ्य एव सिद्धेः । तस्मान्न सुखादिसाधनं ब्रह्म, नापि दुःखाभावरूपम् ; भावात्मक स्वभावताविरोधात् । नापि सुखात्मकम्, तथात्वे प्रमाणाभावात् । इत्यत आहसुखमिति । आनन्दस्वरूपम् । न च ब्रह्मण आनन्दात्मत्वे प्रमाणाभाव: । “ विज्ञानमानन्दं ब्रह्म" (बृ० ३ । ९ । २८ ) " आनन्दो ब्रह्मेति व्यजानात् " ( तै० ३ । ६) " आनन्दरूपममृतं यद्विभाति” (मुण्ड०२।७) “यो वै भूमा तत्सुखम् " ( छा० ७।२३ । १) " को ह्येवान्यात् क: प्राण्याद्यदेष आकाश आनन्दो न स्यात्" ( तै० २।७) इत्यादिश्रुतीनां प्रमाणत्वात् । न च प्रियाप्रियास्पर्शित्वश्रुतिविरोधः, तस्या वैषयिकप्रीतिनिषेधपरत्वादिति भावः । एवं सति सत्यज्ञानानन्तसुखं श्रीमुकुन्दं स्वं प्रत्यगभिन्नं कलये - इति ब्रह्मात्मनो: सामानाधिकरण्येन तत्त्वंपदार्थयोरैक्यं वाक्यार्थो निरूपितो भवति । एतेषाञ्च पदानां श्रीमुकुन्दपदेन प्रत्येकं प्रथममन्वितानां पश्चात्सामानाधिकरण्येन परस्परमपि सम्बन्धसिद्धि: । "अरुया पिङ्गाच्या गवैकहायन्या सोमं क्रीणाति" इत्यत्र क्रयवाचिपदान्वितानामरुणादिपदानामिव परस्परान्वयः । न चैकार्थत्वे सत्यादिपदानां पर्यायतापत्तिरयौगपद्यञ्चेति वाच्यम्, प्रवृत्तिनिमित्तभेदात्; व्यावर्त्यभेदाच्चाक्तदोषानवकाशात् । एवं विधिमुखेनानृतजडपरिच्छिन्नदुःखरूपानात्मधर्मविलक्षणं श्रीमुकुन्दपदवाच्यं ब्रह्मेति निरूप्येदानों "नेति नेति" (बृ० २ । ३ । ६) "अस्थूलम् ” (बृ० ३ । ८ । ६) "यतो वाचो निवर्त्तन्ते” ( तै० २ । ८ ) इत्यादिश्रुतिमाश्रित्य निषेधमुखेन सकलनिषेधावधिभूतं सत्यस्य सत्यं ब्रह्मेति दर्शयति – प्रवाग्गोचरमिति । वाग्गोचरो न भवति यस्तम्, तत्र हेतु: - बुद्धातीतमिति । नहि बुद्धानारूढं वस्तु वक्तुं शक्यते । "नैव वाचा न मनसा " (क० २ । ६ । १२) “यद्वाचानभ्युदितम् ” ( के० १ । ४) “ यन्मनसा न Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy