SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम् । भक्तिद्वारा, सिद्ध्यै भक्तानां मोक्षसिद्धयं । वस्तुतः सत्यज्ञानाद्यात्मकमेव मेघश्यामं नवधनरमणीयकान्तिमद्वपुषं निरवधिरसमपरिच्छिन्नशृङ्गारादिनवरसाधारं कान्त्या सर्वसौन्दर्यसारसर्वस्वभूतयाऽऽक्रान्तं वशीकृतत्रिभुवनं येन तद्वपुर्दधानम् । दधानमित्यस्य पीतवासादधानमित्यत्राप्यन्वयः। ध्येये अवश्यं ध्यातव्ये पादारविन्दे यस्य तं स्मितेन मन्दहसितेन निजभक्तानुग्रहसूचकेनोपलक्षितमास्यं मुखारविन्दं यस्य तं कलय-इति सम्बन्धः। एवमनन्तकल्याणगुणगणनिलयं भगवन्तमनुसन्धाय तमेवाखण्डवाक्यार्थभूतमनुसंदधानोऽखण्डवाक्यार्थसिद्धये तत्पदार्थ शोधयति-सत्यज्ञानामितसुखमिति । "अानन्दादय: प्रधानस्य” (ब्र० सू० ३ । ३।११) इति न्यायेन "सत्यं ज्ञानमनन्तं ब्रह्म" ( तै० २।१) "विज्ञानमानन्दं ब्रह्म” (३। । २८ ) इति श्रुत्याः परस्परैकवाक्यतामभिप्रेत्य सत्येत्यादिभिः सुखपदस्य समास:। सत्यमनृतशून्यव्यावृत्तं बाधाभावोपलक्षितस्वरूपं सत्तात्मकमिति यावत् । ननु सत्यमपि तत् तमोवज्जडं किन्न स्यादित्यत आह-ज्ञानेति । ज्ञानं स्वप्रकाशम् , अप्रकाशजडविलक्षणत्वनिर्देशसामर्थ्यात्। "तद्देवा ज्योतिषां ज्योतिः” ( बृ० ४ । ४ । १६ ) "तस्य भासा सर्वमिदं विभाति" ( कौ० २। ५ । १५) इत्यादिश्रुतेः । ननु सत्यज्ञानात्मकमपि परिच्छिन्न स्यादित्यत आह–अमितेति । अमितशब्दोऽनन्तपदपर्याय: स चाविद्याध्यस्तदेशकालवस्तुभ्यः परमात्मन: परिच्छेदं व्यावर्त्तयत्येव, नञ्पदप्रयोगात् । तदुक्तम्- 'तत्रानन्तोऽन्तवद्वस्तुच्यावृत्त्यैव विशेषणम्” इति । इतराणि तु पदानि स्वार्थापरित्यागेनैव स्वं विरोध्यर्थव्यावृत्तं ब्रह्म लक्षयन्ति । तदुक्तम्- ''स्वार्थार्पणप्रणाड्या च परिशिष्टौ विशेषणम्” इति । परिशिष्टौ सत्यज्ञानशब्दावित्यर्थः। ननु सत्यज्ञानानन्तमपि ब्रह्म न प्रेप्सागोचरः, सुखदुःखाभावतत्साधनानामन्यतमत्वाभावात् । न तावस्वसुखदुःखाभावसाधनं ब्रह्म, स्वस्मिन्सुखदुःखयोर्नित्यनिवृत्तत्वात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy