________________
पञ्चमं प्रकरणम् ।
२३३ तत्त्वमस्यादिवाक्यानामखण्डार्थत्वमित्यदः। संसगसिङ्गिसम्यग्धीजनकत्वं यदेव तत् ॥ १६५॥
इदानीमखण्डार्थत्वप्रसिद्धिरपि निर्विकल्पकहेतुत्वेन प्रमाणमित्याह-तत्त्वमिति । यत्पदार्थसंसर्गानवगाहियथार्थज्ञानजनकत्वमिदमेव तत्त्वमस्यादिवाक्यानामखण्डार्थत्वम् । न तु निर्भदवस्तु. परत्वम् , तस्य भेदाभावविशिष्टवस्तुपरत्वस्य निर्घटभूतल मित्या दिवाक्यसाधारण्यात्; प्रकृते तदभावाच्च । नचाऽन्यदखण्डार्थत्वम् , तस्याऽनिर्वचनादिति भावः । राजपुरुष इत्यादा संसर्गपरे वाक्येऽतिव्याप्तिवारणायोक्तम्-संसर्गानवगाहीति। तत्रैवाऽभेदतात्पर्यभ्रमात् पदार्थसंसर्गानवगाहितदभेदभ्रमजनके तत्प्रसङ्गवारणाय यथार्थेति द्रष्टव्यम् ।। १६५ ॥
संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् । उक्ताऽखण्डार्थता यद्वा तत्मातिपदिकार्थता ॥१६६॥
उक्तेऽर्थे चित्सुखाचार्यसम्मतिमाह-संसर्गेति । या संसर्गासङ्गिसम्यग्धीहेतुता, इयमखण्डार्थता उक्तति सम्बन्धः । लक्ष्य निर्दिशति-गिरामिति । कार्यकारणभावरहितद्रव्यविषयसमानाधिकरणापर्यायशब्दानामित्यर्थः । प्रातिपदिकार्थमात्रपरत्वमखण्डार्थत्वं वेत्यर्थः । यस्य वाक्यस्य यत्प्रातिपदिकार्थमात्रपरत्वं तस्य तत्राऽ. खण्डार्थत्वम् , अतो नान्यत्र तत्प्रसङ्गः। तत्पदघटितलक्षणाभिप्रायं तद्ग्रहणमिति द्रष्टव्यम् ॥ १६६ ॥
जीवसाक्षीशसाक्ष्येतत्प्रत्यक्षं द्विविधं पुनः । जीवश्चिद् बुद्ध्यवच्छिन्ना तत्साक्ष्युपहिताऽमुया१६७ ३०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com