SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २३४ प्रत्यक्तत्वचिन्तामणी __एवं सविकल्पकनिर्विकल्पकभेदाद् द्वैविध्येन निरूपितस्य प्रत्यक्षज्ञानस्य प्रकारान्तरेण द्वैविध्यमाह-जीवसाक्षीति । साक्षिपदं तज्जन्यपरम् । तथा च जीवसाक्षिजन्यमीश्वरसाक्षिजन्यमिति द्विविधमित्यर्थः । अत एव "साक्षिद्वैविध्यतः प्रोक्तं प्रत्यक्ष द्विविधं यतः" इत्युतरग्रन्थोऽपि सङ्गच्छते। न च सविकल्पकादिभेदेन, प्रत्यक्षज्ञाननिरूपणानन्तरं साक्षिज्ञानद्वैविध्यनिरूपणाधीनत्वादिति तन्निरूपयति-जीव इति । यद्यपि जीवस्वरूपं षष्ठे निरूपयिष्यते इति नेह तन्निरूपणं युक्तम् , तथापि जीवतत्साक्षिणार्भेदं निरूपयितु जीवस्वरूपकथनमित्यवधेयम् । तत्र जीवो नामाऽन्तःकरणावच्छिन्नं चैतन्यम् , तत्साक्षी तु अमुनाऽन्तःकरणेनोपहितं चैतन्यमित्यर्थः ।। १६७ ॥ विशेषणत्वोपाधित्वरूपेणाऽस्त्यनयोर्भिदा। जीवतत्साक्षिणोरन्तःकरणस्य द्वयोरपि ॥ १६॥ व्यावर्त्तकान्त:करणस्यैकत्वाजोवतत्साक्षिणार्भेदः किन्निबन्धनः ? इत्याशङ्क्याह-विशेषणत्वेति । विशेषणं कार्यान्वयि, अवच्छेद्यं यदन्वयि तदन्वयीति यावत् । तथा च कार्यान्वयित्वे सति व्यावर्त्तकत्वं विशेषणत्वं पर्यवस्यति । तेन घटपटी पश्यति देवदत्त इत्यत्र घटपटयोरेकदर्शनक्रियान्वयित्वेऽप्यव्यावर्त्तकत्वाद् न परस्परविशेषणत्वापत्तिरिति भावः । उपाधिश्च कार्यानन्वयी, व्यावतको वर्तमानश्च । यथा कर्णशष्कुल्यवच्छिन्न नभः श्रोत्रमित्यत्र कर्णशष्कुली उपाधिरित्यर्थः । रूपविशिष्टो घटो नित्य इत्यत्र रूपं विशेषणम् । तथा चान्तःकरणस्य विशेषणत्वरूपेण चैतन्यविषये प्रवेशे जीवत्वमुपाधित्वरूपेण तत्साक्षित्वमित्यनयोर्द्वयोर्भेद इत्यर्थः ॥ १६८ ।। जडान्तःकरणस्याषभासकत्वाद्ययोगतः। जडभासकचैतन्योपाधित्वं स्वीकृतं ततः ॥ १६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy