SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २३२ प्रत्यक्तत्त्वचिन्तामणौ शक्यजन्यज्ञानविषयत्वापत्तिः स्यादिति, किन्तु तात्पर्य विषयत्वं प्रयोजकमित्यर्थः ॥ १६१-१६२ ॥ प्रकृते च सदेवेत्याद्युपक्रम्योपसंहृतम् । तत्सत्यमिति वेदान्ते लिङ्गं तात्पर्यनिर्णये ॥१६३॥ उपक्रमोपसंहारावभ्यासोऽपूर्वताफलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्य्यनिर्णये ॥१६४ ॥ अद्वितीयब्रह्मण एव तात्पर्य्यविषयत्वम, वेदस्यापौरुषेयत्वेऽपि तात्पय॑निर्णायकषड्विधलिङ्गसत्त्वादित्याह-प्रकृते चेति द्वाभ्याम् । अद्वितीयं ब्रह्म वाक्यार्थ: "सदेव सोम्येदमग्र प्रासीदेकमेवाद्वितीयम्" (छा०६।२ । २) इत्युपक्रान्तस्य "ऐतदात्म्यमिदं सर्व तत्सत्यं स मात्मा तत्त्वमसि श्वेतकेतो" (छा० ६ । ७ । ४) इति तेनैकरूपेणोपसंहृत्य “ऐतदात्म्यमिदं सर्व तत्सत्यं स प्रात्मा तत्त्वमसि' (छा०६। ८, ९, १०, ११, १२, १३, १४, १५, १६) इति नवकृत्वोऽभ्यस्तस्य प्रमाणान्तरानवगतस्य "येनाश्रुतं श्रुतं भवति" (छा०६। १ । ३) इत्यादिवाक्यात्प्ररोचितस्य मृल्लोहतप्तपरशुग्रहणादिदृष्टान्तैरद्वितीयत्वेनोपपादितस्य ब्रह्मणो ज्ञानाद् "प्राचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्ये' (छा० ६ । १४ । २) इत्याचार्योपदेशजनितानिर्विचिकित्साद् निरतिशयानन्दलक्षणमोक्षफलस्यावगतेस्तस्यैव तात्पर्य्यविषयत्वादिति तात्पर्य्यार्थः। तस्मादुपक्रमादेस्तात्पर्यग्राहकत्वाभ्युपगमात् सिद्धं सत्याद्यवान्तरवाक्यजन्यस्य "तत्त्वमसि" (छा०६।८।७) "अयमात्मा ब्रह्म' (बृ० २ । ५। १६) "अहं ब्रह्मास्मि' (बृ० १ । ४ । १०) इत्यादि महावाक्य जन्यस्य च ज्ञानस्य निर्विकल्पकत्वमिति भावः ॥ १६३-१६४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy