SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ पश्चमं प्रकरणम् । २३१ निर्विकल्पकं लक्षयति-संसर्गाऽनवगाहीति । निर्विकल्पकलक्षणे उदाहरणाभावमाशङ्क्य लोकवेदयोः प्रत्यक्षसिद्धं तदित्याह-सोऽय. मिति । ननु सोऽयं देवदत्त इत्यैक्यप्रत्यभिज्ञयैव वाक्यप्रयोगाद्देशकालोपलक्षितदेवदत्तलक्षणाभेद विषयमिन्द्रियजन्यमप्यस्ति प्रत्यक्षम्, कथं शाब्दमेवादाहृतम् ? इति चेत्, सत्यम् ; अभेदविषयज्ञानमिन्द्रियजन्यमिति, तथापि न तनिर्विकल्पकम, सन्निकर्षवशादुपलक्षणदेशकालादेरपि भानसम्भवात् । शाब्दे ज्ञाने तु तात्पर्य्यविषयस्यैव भाननियमादभेदमात्रविषयत्वमित्यता निर्विकल्पकमिति भावः । प्रादिपदात् प्रकृष्टप्रकाशश्चन्द्र इति वाक्यजन्यज्ञानं ग्राह्यम् । अखण्डार्थविषयकं ज्ञानं निर्विकल्पकमित्याह-एवमिति। यथा सोऽयं देवदत्त इति वाक्यजन्यज्ञानस्य सन्निकृष्टविषयतया बहिनिःसृतान्तःकरणवृत्त्यभ्युपगमेन देवदत्तावच्छिन्न चैतन्यस्य प्रमातृवृत्त्यवच्छिन्नचैतन्यस्य चाऽभिन्नतया प्रत्यक्षत्वम्, एवं तत्त्वमसीति वाक्यजन्यज्ञानस्यापि; तत्र प्रमातुर्विषयतया तदुभयाभेदस्य सत्त्वादिति द्वयोस्तापार्थः ॥ १५६-१६० ॥ तत्र प्रमातुरेवास्य विषयत्वेन साक्षिणः । उभयोरप्यभेदस्य सत्त्वादैक्यममा भवेत् ॥ १६१ ॥ न तन्वं वाक्यजज्ञानविषयत्वे पदार्थगः। संसर्गः किन्तु तात्पर्यविषयत्वं प्रयोजकम् ॥ १६२॥ ननु वाक्यजन्यज्ञानस्य पदार्थसंसर्गावगाहितया कथं निर्विकल्पत्वम् ? इत्याशक्याह-नेति । वाक्यजन्यज्ञानविषयत्वे हि न पदार्थसंसर्गत्वं तन्त्रम्, अनभिमतसंसर्गस्यापि वाक्यजन्यज्ञानविषयत्वापत्तेः। तथा हि-भोजनप्रकरणे 'सैन्धवमानय' इत्यत्राऽनभिमतस्याऽश्वादिसंसर्गस्य, 'यष्टीः प्रवेशय' इत्यत्र दण्डसंसर्गस्य च Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy