________________
पञ्चमं प्रकरणम् । परिहारान्तरं शङ्कते-अथेति ॥ २० ॥ तदा न कञ्चिदप्येवं प्रकाशेताऽप्यसङ्गतः। नान्यत्र स्वाश्रयाज्ज्ञानं संसर्ग भजते गुणः ॥२१॥
दूषयति-तदेति । क्रियारूपस्य गुणस्य वा ज्ञानस्य स्वाश्रयमतिलङध्याऽन्यत्र संसर्गायोगात्,असंसृष्टग्राहित्वे चातिप्रसङ्गादित्यर्थः॥२१॥
देहावच्छिन्न एवात्मप्रदेशसमवायि चेत् । ज्ञानं तर्हि प्रसज्येत सांशत्वे नित्यमात्मनः ॥२२॥
शरीरावच्छिन्नात्मप्रदेशसमवायिज्ञानमित्यस्मिन् पक्षेऽपि दूषणमाह-देहेति । प्रात्मनि प्रदेशस्य स्वाभाविकत्वम् १ औपाधिकत्वंवा ? तत्राद्यं दूषयति-तीति । प्रदेशस्वाभाविकत्वे सावयवत्वेनानित्यत्वमात्मनः प्रसज्येतेत्यर्थः ॥ २२ ॥
औपाधिकत्वेऽपि ज्ञानं तत्प्रदेशान्वितग्रहात् । तदा देहाद्वहि तघटादीनावभासयेत् ॥२३॥
औपाधिकत्वपक्षे दूषणमाह-औपाधिकत्वेऽपीति । औपाधिकत्वेऽपि ज्ञानं तत्प्रदेशसंयुक्तग्राहकञ्चेत्, तदा देहाद्वाह्यघटादीन्नैव भासयेदिति योजना ॥ २३ ॥
बाह्यात्मदेशसंयुक्तग्राहित्वे सर्वमप्यदः । अवभासेत नातोऽस्ति व्यवस्था तार्किके मते ॥२४॥
बाह्यात्मप्रदेशसंयुक्तग्राहित्वे बाह्य सर्वमप्यवभासेत ! नेत्याहबाह्यति ॥२४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com