________________
१९२
प्रत्यक्तत्त्वचिन्तामणौ ननु सम्बन्धशून्येऽपि वस्तुन्येव व्यवस्थया । ज्ञानक्रिया स्वभावेनातिशयं जनयिष्यति ॥२५॥ अभिचारक्रिया यद्वद् दूरे व्यवहितं नरम् । उद्दिष्टमेव हन्त्येवं ज्ञानं भासयतीति चेत् ॥२६॥
उपपत्त्यन्तरेण नियमं शङ्कते-नन्विति द्वाभ्याम् । सम्बन्धरहिते - पि वस्तुनि व्यवस्थयैव ज्ञानक्रियाऽतिशयं जनयिष्यति । यथा अभिचारक्रियया सहस्रयोजनव्यवहितोऽप्युद्दिष्ट एव पुरुषो मार्यते, इति कथन्न नियमसिद्धिः १ इति द्वयोर्योजना ।। २५-२६ ॥
तत्रापि हन्यमानेन हन्ना युक्तस्य चेशितुः । नियामकस्य कृत्यादिरनुमेयतया तया ॥२७॥
तद्दषयति-तत्रापीति । अभिचारक्रियायामपि हन्तृहन्यमान. पुरुषद्वयसंयुक्तदेवतात्मन ईश्वरस्य वा कृत्यादेर्वा नियामकस्यानुमेयत्वान्न तथाऽत्र नियामकत्वं कस्यचिदित्यर्थः ॥ २७ ॥
अभिचारक्रियात्वेन संयुक्तऽतिशयाघहा। क्रियात्वाद्वाणशक्तयादिक्रियावदिति साधनात्॥२८॥
अनुमान दर्शयति-अभिचारेति । विमतमभिचारकर्म स्वसम्बन्धिन्यतिशयजनकम् , क्रियात्वात्, वाणादिक्रियावदित्यर्थः ।। २८ ।।
अथ संयुज्यते ज्ञानाधारेणैवात्मना मनः। मनसा चेन्द्रियं तेन विषयो युज्यते तथा ॥२८॥ नियामिकाऽस्तु तत्रेयं सा संयोगपरम्परा। अतस्तार्किकपक्षे स्याद् व्यवस्थेति तदप्यसत् ॥३०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com