SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १६३ पञ्चमं प्रकरणम्। परिहारान्तरं शङ्कते-प्रथेति द्वाभ्याम् । तदूषयति-तदिति ।। २६-३० ॥ तस्याः परम्परायास्तु ज्ञानात्पूर्वमुपक्षयात् । ज्ञानोत्पादन एवातो व्यवस्था तत्र दुर्लभा ॥३१॥ ज्ञानादूर्ध्वमपीयञ्चेत्तदा सर्वं जगत्समम् । तत्संयुक्तादिरूपेणाऽवभासेताऽवभासने ॥ ३२॥ तस्या इति। तस्याः परम्पराया ज्ञानात् पूर्व ज्ञानोत्पादने एवोपक्षयाद् ज्ञानादुपर्यपि संयोगपरम्परयाऽवभासे विषयसंयुक्ततत्सं. युक्तादिरूपेणावस्थितं सर्व जगत्समं युगपदेवावभासतेति द्वयोयोजना ॥३१-३२॥ एवमेवोहनीयाः स्युरणुमात्रात्मविन्मते। देहमात्रात्मवादे च दोषा युक्तिविदां वरैः ॥३३॥ तस्मान्मातृप्रमाणादिव्यवहारस्य सम्भवः । सर्ववादिमते नास्ति युक्तिभिश्चेति संग्रहः ॥ ३४ ॥ एवमणुपरिमाणदेहपरिमाणात्मपक्षयोरपि दोषा ऊहनीया इत्याह-एवमेति । तत्राणुपरिमाणात्मवादिमते हृदादिनिमग्नस्य पुरुषस्य सर्वाङ्गे शीतस्पर्शानुभवोऽपि न स्यात्, प्रणाः सर्वाङ्गसम्बन्धस्य युगपदसम्भवात् । क्रमिकसंयोगानाञ्चायोगपद्येनेकज्ञानजनकत्वासम्भवात् । यदि स्वशरीरेऽपि सर्वाङ्गज्ञानासम्भवः, तर्हि बहिज्ञानं तस्य कुत: ? कुतश्च प्रतिकर्मव्यवस्था ? इति शरीरपरिमाणात्मवादिमतेऽपि तस्य बहिर्देशसम्बन्धाभावादनेकान्त्यवादाच्च न प्रतिकर्मव्यवस्थासम्भवः । तथाचोपहसितमाचार्यावाचस्पतिमि: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy